Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 98
________________ दर्शनार्थमुद्याने कण्डरीकस्तिष्ठति, कथितं, पृष्टं पुण्डरीकेण-कियन्तः साधवः ?, तेनोक्तम्-एकाकी, चितितं पुण्डरीकेण-न शोभनमेकाकित्वं ततः स्तोकपरिवारो गतो यावत्तरुशाखायां पात्र धृत्वाऽऽत्मना हरितमध्ये पादप्रसारिकया तिष्ठति, ज्ञातोऽभिप्रायः, पविष्टोऽभ्यन्तरे, उक्तश्च यथा गृहाण राज्यं, “ इच्छंतो विसयसुहं रज्जम्मि निवेसिओ नरिंदेणं । एकं ताव छुहाल बीयं पुण पावियं भोजं ॥१॥" ततो राज्यालंकारः गृहीतः कण्डरीकेण, प्रव्रज्यालंकारः पुण्डरीकेण, महत्तमानां कथितं यथा युष्माकं कण्डरीका राजा, गतो राजभवन, काथतः सर्वेषां वृत्तान्तो, न संमतो भग्नव्रतः, न कश्चित्तद्धचो विधत्ते, स च प्रथमपरीषहपराजितः । सूपकाराणामादेशं दत्तवान्-सर्व भोजनजातं ममाग्रतः प्रगुणं कुरुध्वं, तैरपि तथैव कृतं, भोजनार्थमुपविष्टः, प्रेक्षणकदृष्टान्तेन भोक्तमारब्धः, अतीव भुक्त, रात्री विसूचिका संजाता, अप्रतिजागरितो रोद्रध्यानानुगतो लोकानामुपरि तस्मिन्नेवादि मृतः, सप्तमपृथिव्यां नारक उत्पन्नः, पुण्डरीकस्तस्मिन्नेव दिने सर्वार्थसिद्धाविति ॥ गुणद्वारमाहसिवसग्गपढमकारण सामाइयसंगमं तु काऊण । सागरचंदसुदंसण हेऊय चयति नो पत्तं ॥ ९६ ॥ 'शिवा' मोक्षः 'स्वर्गः' देवलोकः तयोः कारण-तयोः प्रधानहेतुः, किं तत् ? 'सामायिकसंगम' सामायिकसम्बंध, तुशब्दः पुनःशब्दार्थे ' कृत्वा' विधाय ' त्यति' परित्यजति 'नो प्राप्तं सत् ' लब्धं सत् , दृष्टान्तद्वयं सागरचन्द्रवत् सुदशनवञ्च ' हेतुतः' प्रामाण्यादिति गाथार्थः ।। भावार्थः कथानकादवसेयस्तचेदं सागरचन्द्रकथानकम् द्वारवत्यां बलभद्रपुत्रः सागरचन्द्रः, स च सर्वेषां यादवकुमाराणां शाम्बादीनामतीव वल्लभः संजातः, तस्मिन्नेवाधिष्ठाने उउग्रसेनदुहिता कमलामेला नाम दारिका रूपवतो नभःसेनस्य दत्ता, वीवाहदिनं च निरूपितं, इतश्च तस्यामेव द्वारकावत्यां नार 56AUGNOCRACKMACHARHAALIK Jain Education For Private & Personal Use Only w .jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138