________________
दर्शनार्थमुद्याने कण्डरीकस्तिष्ठति, कथितं, पृष्टं पुण्डरीकेण-कियन्तः साधवः ?, तेनोक्तम्-एकाकी, चितितं पुण्डरीकेण-न शोभनमेकाकित्वं ततः स्तोकपरिवारो गतो यावत्तरुशाखायां पात्र धृत्वाऽऽत्मना हरितमध्ये पादप्रसारिकया तिष्ठति, ज्ञातोऽभिप्रायः, पविष्टोऽभ्यन्तरे, उक्तश्च यथा गृहाण राज्यं, “ इच्छंतो विसयसुहं रज्जम्मि निवेसिओ नरिंदेणं । एकं ताव छुहाल बीयं पुण पावियं भोजं ॥१॥" ततो राज्यालंकारः गृहीतः कण्डरीकेण, प्रव्रज्यालंकारः पुण्डरीकेण, महत्तमानां कथितं यथा युष्माकं कण्डरीका राजा, गतो राजभवन, काथतः सर्वेषां वृत्तान्तो, न संमतो भग्नव्रतः, न कश्चित्तद्धचो विधत्ते, स च प्रथमपरीषहपराजितः । सूपकाराणामादेशं दत्तवान्-सर्व भोजनजातं ममाग्रतः प्रगुणं कुरुध्वं, तैरपि तथैव कृतं, भोजनार्थमुपविष्टः, प्रेक्षणकदृष्टान्तेन भोक्तमारब्धः, अतीव भुक्त, रात्री विसूचिका संजाता, अप्रतिजागरितो रोद्रध्यानानुगतो लोकानामुपरि तस्मिन्नेवादि मृतः, सप्तमपृथिव्यां नारक उत्पन्नः, पुण्डरीकस्तस्मिन्नेव दिने सर्वार्थसिद्धाविति ॥ गुणद्वारमाहसिवसग्गपढमकारण सामाइयसंगमं तु काऊण । सागरचंदसुदंसण हेऊय चयति नो पत्तं ॥ ९६ ॥
'शिवा' मोक्षः 'स्वर्गः' देवलोकः तयोः कारण-तयोः प्रधानहेतुः, किं तत् ? 'सामायिकसंगम' सामायिकसम्बंध, तुशब्दः पुनःशब्दार्थे ' कृत्वा' विधाय ' त्यति' परित्यजति 'नो प्राप्तं सत् ' लब्धं सत् , दृष्टान्तद्वयं सागरचन्द्रवत् सुदशनवञ्च ' हेतुतः' प्रामाण्यादिति गाथार्थः ।। भावार्थः कथानकादवसेयस्तचेदं सागरचन्द्रकथानकम्
द्वारवत्यां बलभद्रपुत्रः सागरचन्द्रः, स च सर्वेषां यादवकुमाराणां शाम्बादीनामतीव वल्लभः संजातः, तस्मिन्नेवाधिष्ठाने उउग्रसेनदुहिता कमलामेला नाम दारिका रूपवतो नभःसेनस्य दत्ता, वीवाहदिनं च निरूपितं, इतश्च तस्यामेव द्वारकावत्यां नार
56AUGNOCRACKMACHARHAALIK
Jain Education
For Private & Personal Use Only
w
.jainelibrary.org