________________
श्री नवपद प्रक०वृत्ती. ॥४२॥
सामायिके कण्डरीक
चरित्रं.
दिमतं तु सामायिकोपयुक्तः समभावस्थितः शब्दक्रियारहितोऽपि सामायिकवान् , मनाज्ञपरिणामयुक्तत्वात् , इति नयवादाश्चित्राः । कचिद्विरुद्धा इवाथ च न विरुद्धाः । लौकिकविषयातीताः, तत्त्वज्ञानार्थमधिगम्याः ॥१॥ सर्वनयसमूहं तु जिनमतम् , अलमतिप्रसंगेन, दिग्दर्शनगेतदिति गाथार्थः "सोउं सदहिऊण य णाऊण य तं जिणोवएसेणं । तं सव्वनयविसुद्ध सबनयसमय जंतु ॥२॥ एवं सब्वेवि नया मिच्छट्टिी सपक्खपडिबद्धा । अन्नोन्ननिस्सिया पुण लहंति सम्मत्तसम्भावं ॥२" इत्यादि गाम्भीर्य दर्शनस्य पर्यालोच्य ॥ दोषद्वारमाहसामाइयं च पडिवजिऊण भज्जति कम्मदोसेणं । ते कंडरीयसरिसा भमंति संसारकतारं ॥ १५ ॥
सामायिकं तु प्रतिपद्य-समभावप्रतिज्ञां विधाय ततो भंग कुति कर्मदोषात-गुरुकर्मत्वात् श्रावकाः कण्डरीकवत् 'भमन्ति' पर्यटन्ति 'संसारकन्तारं भवारण्यमिति गाथार्थः ॥ भारार्थः कथानकगम्यस्तच्चेदम्
पुण्डरीकियां नगया पुण्डरीककण्डरीकनामाना द्वा भ्रातरो, अन्यदा सुस्थिताचार्यसमीपे धम्मै श्रुत्वा पुण्डरीकः प्रतिबुद्धः कण्डरीकं लघुभ्रातरं राज्ये स्थापयित्वा प्रवजामोति सम्पधार्य गृहं गतः, उक्तश्व कण्डरीकः, तेनोक्तम्-किभित्यकाण्ड एव राज्यं परित्यजसि ?. तेनोक्तम्-दुर्गतिहेतू राज्य, कण्डरीकेणोक्तम्-किमहं तवानिष्टः ?, पुण्डरोकेणोक्तम्-त्वमपरिकभितशरोरः, तेनोक्तम्-अहमपि तेनेव पित्रा जातोऽवश्यं मया प्रवज्या ग्राह्या, ततो वारयतो गृहीता कंडरीकेण पत्रज्या, स्थितः पुण्डरीकः, वर्षसहखं यावत् पालिता, ततो वसंतमासे कामोत्कोचकैः सहकारैः पुष्पितः कोकिलशब्दितैः चर्चरिभिर्दीयमानाभिश्चलितं चित्तं, गच्छामि गृहामि राज्यम् , एकाक्येवागतः पुण्डरीकिण्यामुद्यानपालक प्रेषयति, यथा पुण्डरीकाय मदोमासी कथय, यथा तब
॥४२॥
Jain Education dam)
For Private Personel Use Only
jainelibrary.org