Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 123
________________ नवपद अति सं. Jain Educati fararatri वेलायामागच्छेति ततो मम निर्जरणा भवतीति गाथार्थः ॥ अतिचारद्वारमाहसच्चित्ते निक्खिवणं पिणं ववएस मच्छरं चेवः । कालाइकमदाणं अइयारे पंच वज्जिज्जा ।। १२६ ।। सचित्ते सचित्तस्योपरि निक्षेपणमदेयबुद्ध्यान्नादेरिति गम्यते १ तथा पिधानं स्थगनं सचित्तेन फलादिना २, तथा व्यपदेशः यथा परसत्कमिदं यद्भवता कटमन्नादि दृष्टं, अथवा परव्यपदेशेन मातुः पुण्यं मदीयदानेन भवत्विति ३, तथा मत्सरेणाप्यतिचारः, अपरेणेदं दत्तं किमहमस्मादपि कृपणः दीनो वा, मात्सर्ये वा मार्गितः करोति ४ काळातिक्रमदानं न्यूनमधिकं वा का ज्ञाar अतिथिसंविभागाय निमंत्रयति, किं तेन गृहीतेन ?, “ काले दिन्नस्स पहेणयस्स य अग्घो न तीरए काउं । तस्सेवाकाळपणाामयस्स गेहं तया नत्थि ॥ १ ॥ सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्म्मसाधनसामग्री, नाल्पपुण्यैवाप्यते ॥ २ ॥ " इति गाथार्थः ॥ भङ्गद्वारमाह दाणं तरायदोसा न देइ दिज्जंतयं च वारेइ । दिन्ने वा परितप्पइ किविणत्ताओ भवे भंगो ॥ १२७ ॥ दानान्तरायदोषात् सदपि न ददाति, कपिल ब्राह्मणीश्रेणिकधात्रीवत् पात्रे सत्यपि दानं स्वयं, तथा दीयमानमपि वारयति कृपणत्वादेव, दत्तेऽपिच परितप्यते कृपणत्वादेव, ततो भङ्गो भवतीति गाथार्थः ॥ भावनाद्वारमाहधन्नाय पुनर्मता तेसिं सहलं च जीवियं लोए । सेजंसो इव दाणं भत्तीए दिति पत्ते 'घ न्या' धनादिमन्तः ' पुण्यवन्तः ' सुखादिमन्तस्तेषां सफलं च जीवितं 'लोके मनुष्यलोके जोवितं श्लाघ्यते, दृष्टान्तमाह- 'श्रेयांस इव' बाहुबलिपौत्रक इव दानं भक्त्या ये 'ददति' प्रयच्छंति पात्रेषु ते धन्या इति गाथार्थः ॥ श्रेयांसक ॥ १२८ ॥ For Private & Personal Use Only यतनातिचार-भंग भावनाः १२५-८ ॥ ५५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138