________________
प्रकरण.
गुणरूपे - णिक श्रावक मुतायुदाहरणानि
॥१३॥
FRELCANCHORRORRCHCRACANCCact
नरके दुःखभाजनं संवृत्त इति संक्षेपार्थः ॥ अधुना पंचमं द्वारं गुणरूपमाहजे पुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारगदामन्नगमाइयाणं च ॥२५॥
ये पुनः प्राणिनो 'वधविरतियुता' वधनिवृत्तिसमन्विता 'उभयलोकेऽपि' उभयलोकयोः-इहपरलोकयोस्तेषां कल्याणं जायते, तेषां (कल्याण) परम्परा जायत इति, दृष्टान्तद्वयमत्र, यथा मूपकारगृहीतश्रावकदारकः दामनकश्च, आदिशब्दात् क्षेमादयश्चेति संक्षेपार्थः। विस्तरार्थः कथानकगम्यः, तच्चेदं
वणिक्श्रावकपुत्रः कश्चिचौरैरपहृत्योज्जयनी नीत्वा राजमूपकारहस्ते विक्रीतः, स च तेनोक्तो-लावकान् उच्छ्वासय, तेन पंजरान् मुक्ताः, तेनोक्तं-वयं कुरु, स च तूष्णोभावेन स्थितः, पुनः पुनरुच्यमानोऽपि यदा न करोति वधं ताडितः, ततो रोदितुमारब्धः करुणं, राज्ञा च वातायनस्थितेन श्रुटि च, ज्ञातः सर्वोऽपि वृत्तान्तस्ततो राज्ञश्चित्तमध्ये महान् संतोषः संजातः, तथापि परीक्षार्थ हस्तिना मारयित्वा व्यापादय, इत्युक्तेऽपि राज्ञा तथापि निर्भयो वदति च-प्राणात्योऽपि न पंचेन्द्रियादिवर्ध करोमि, ततो राज्ञोक्त-मम दीयतामेषः, शरीररक्षकः कृतो, जीवनोपायो दत्तो, लोकपूज्यः संजातो नृपपूजितत्वाद्, अतः प्राणिवधनिवृत्तेर्गुण इति प्रथम कथानकम् । द्वितीयं कथानकम्
कश्चिन्मात्सिकः जलाशयात् माघमासे उती निकटवर्तिनं श्रमणकमातापनां कुर्वाणं ददर्श अप्रावरणः, स चानुकंपया जालं तस्योपरि क्षिप्तवान् , गतश्च स्वगृह, स च रजन्यां शीतातः पुनः साधु स्मरति स्म, मम वैश्वानरे निकटवर्तिनि स्त्रीजने च पलालसंस्तारके च तथाप्यतिशीतं, सच कथं रजनी यापयिष्यति ?, प्रभातसमये च गतः साधुसमीपं यावद् दृष्टः IG
For Private & Personal use only
॥१३॥
Jain Education in
jainelibrary.org