Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री नवपद प्रक० वृत्तौ
॥ ३३ ॥
Jain Education
भावेण पावए सी । जह ददुरदेवेणं पत्तं वेमाणियसुरतं ॥ १ ॥ " ततो भगवत्समवसरणे श्रेणिकादीनां प्रत्यक्ष कुष्ठरूपं विधाय भट्टारकपादान्तिकमुपविश्य गोशीर्षचन्दनेन पादौ समालभते स्म श्रेणिकादीनां पूतिरसिकां दर्शयति स्म, क्षुते भगवता मरेत्युक्तं (श्रेणिकेन जीवेति अभयेन जीव वा मरेति कालिकेन मा जीव मा मरेत्युक्तं श्रेणिकेन पृष्टो भगवान - कः कुष्ठी ?, ततः कथिता सर्ववक्तव्यता सविस्तरा, यदि देवः किमर्थ मरेत्युक्तं, भगवतोक्तं किं भवे तिष्ठति ? त्वया पुनः नरके गन्तव्यं, अभयकुमारेण देवलोके, कालसौकरिकेन सप्तमपृथिव्यां मृतेन, जीवन्पंचमहिषशतमाणातकः, ततो नरकभीतः पुनरप्याह- कथं मम नरके गमनं भवति ?, भगवतोक्तं-यदि तक्रविरति तिलकुट्टविरतीं वा पालयसि, कपिलां वा भिक्षां दापयसि, सौरिकाद्वा महिषान् मोचयसि, सर्वमपि प्रारब्धं न चैकमपि संसिद्धं, प्रभाते विलक्षीभूत आगतः, आश्वासितो भगवता यथा मागामिनि काले प्रथमतीर्थकरः पद्मनाभो भूत्वा सेत्स्यसि, ततो मनाऊ स्वस्थः संजात इति । सुबंधुकथानकं प्रारभ्यते
पाटलिपुत्रे नगरे उदायिनृपमरणानन्तरोपविष्टनापितनंदराजान्वयपर्यंते चन्द्रगुप्तराजकुले चाणक्ये महत्तमे स्थापिते नवमनंदसम्बन्धी महत्तमः सुबन्धुनामा निष्कासितः पुनरपि बिन्दुसारराज्येन लब्धप्रसरः समागतः चाणक्यस्तु वृद्धः संजातः, तथापि बिन्दुसारः तं बहु मन्यते । अन्यदा सुबन्धुमहत्तमेनानुपलक्षण मातृमरणं कथितं तव माता अनेन उदरविदारणं कृत्वा मारिता, तेन च धात्री माता पृष्टा, तया तदेव प्रतिपादितं, कारणं न कचिज्जानाति, ततोऽज्ञात कारणतया रोषं ग्राहितः, प्रभाते अदृष्टिदानादिना अप्रतिपत्तिः कृता, अपमानितो गृहं गतः, पिशुनप्रवेशादिकं कारणं मानुषाणां कथितं द्रव्यं धर्मस्थाने दत्त्वा मानुषाणि धर्मे नियोज्य मारणात्मकान् वासान् विषययोगितान् समुद्गके प्रक्षिप्य मध्ये भूर्जपत्रं निधाय मंजू
For Private & Personal Use Only
भोगोपभोग परिमाणं
व्रतम्
॥ ३३ ॥
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138