Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ श्री नवपद प्रक०वृत्ती. अनर्थदण्डं 2 विरतिः ॥३९॥ रागद्दोसवसहा दुद्दन्तुम्मत्तजायवकुमारा। खलियारिऊण य मुणि निरत्थर्य ते गया निहणे ॥ ८६ ।।। ___ 'रागद्वेषवशार्ताः' रागद्वेषवशगता दुर्दान्ताश्च ते उन्मत्ताश्च दुर्दान्तोन्मत्ताः ते च ते यादवकुमाराच-दशारवंसजा: 'खलीकृत्य ' उपद्रवं कृत्वा मुनेद्वैपायनाख्यस्य निरर्थक मद्यपानमदविलास्ते गता 'निधनं ' नगरीलोकदाहादिकं इति संक्षेपार्थः ॥ विस्तरार्थः कथानकगम्यस्तच्चेदम् द्वारवत्यां (द्वारिकायां) नगयों कृष्णबलभद्रनामाना वसुदेवपुत्रावास्तां, नेमि कुमारश्च समुद्रविजयपुत्रो लघुभ्राता, कालेन गृहीतं व्रतं, केवलज्ञानं च चतुष्पंचाशदिनैरुत्पन्न, त्रीणि च शतानि कुमारकालः, अन्यदा विहरन् द्वारिकापुर्या बहिर्वतिनि रेवतकाभिधाने उद्याने समवस्तः, वन्दनार्थमागतेन कृष्णेन पृष्टः-भगवन् ! अस्य द्वारिकापुर्या धनकनकसमृद्धायाः कस्य सकाशाद्विनाशः?, मम च कस्य पाश्र्वान्मृत्युः?, कियता कालेन ?, भगवतोक्तम्-मद्यकारणात् द्वैपायनऋषेः सकाशाद् द्वादशवर्षेभ्यो, विनाशश्च तव जरत्कुमारात् कौशाम्बवने, ततो वासुदेवेन पटहकोद्घोषणापूर्वकं नगरे सर्वलोके कथित एष वृत्तान्तः, उपयुक्तश्च, मद्यानि पर्वतनिकुंजेषु पक्षिप्तानि, पद्मावती पंचशत परिवारा मत्रजिता, तच्छुत्वा अन्ये बहवो यादवकुमाराः प्रव्रजिता अरिष्टनेमिपाचे, द्वैपायनोऽपि देशान्तरं गतः, जरत्कुमारोऽपि वनवासे कालावधि पूरितवान् , द्वादशवर्षापरिलोको मुत्कलचारी सम्पन्नो यथाऽस्माभिस्तपसा निजितापायः, सच द्वेपायनो निकटवर्ती संवृत्तः, तेश्च क्रीडनार्थ गतेः पर्वतनिकुंजेषु सुरा उत्कर्षयुक्ता दृष्टा पीता च, मदविह्वलीभूत द्वैपायनो दृष्टः, खलीकृतश्च, रोषं ग्राहितः, कृतनिदानश्च, कृष्णेन ज्ञातव्यतिकरेण बलभद्रसहायेन गत्वा क्षमापितः, कुमाराणां सम्बन्ध्यपराधो क्षम्यतां, तेन च मानं कृतं, युवयोः Jain Education in For Private & Personal use only P w .jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138