Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रगायं प्रगायं प्रभूतं यदीयं,
यशो नीयते विश्वविश्वे विनेयैः । यशस्वी वचस्वीति मत्तोऽभवद्यो,
नमो गौतमस्वामिने मङ्गलाय ॥७॥
श्रुतिस्थैर्विरुद्धैर्गभीरैर्वचोभि
र्मनः शङ्कितं यस्य जीवस्य सत्त्वे । सशङ्कोऽपि निश्शङ्खवद्वर्तते यो
नमो गौतमस्वामिने मङ्गलाय ॥८॥
अपापाभिधायां नगर्यां समेताः,
समे यज्ञमाकर्तुमाज्ञां दधानाः । यदीयां विदेशात् स्वदेशाच्च लोका,
नमो गौतमस्वामिने मङ्गलाय ||९||
यदा वेदसूक्तैर्विधिं यज्ञसत्कं
प्रसन्नेन चित्तेन कुर्वन् स्थितो यः । तदा तस्य शब्देन सर्वे ररज्जु
नमो गौतमस्वामिने मङ्गलाय ||१०||
इतः श्रीमहावीरनामा जिनेशः
समालोकितालोकलोको यदीयात् । सुभाग्यादपापां पुरीमाश्रितो वै,
नमो गौतमस्वामिने मङ्गलाय ॥११॥
प्रभोरागतिं सज्जनेभ्यो विवेद्या
ऽखिलानुत्तमान् सद्गुणानाकलय्यः ।
परं तन्न सेहे मदोन्मादमत्तो
नमो गौतमस्वामिने मङ्गलाय ||१२||
प्रभोः सेवनायै समेताः समेषां
सुराणां समूहा समुत्साहयुक्ताः । तदाऽऽयान्ति ते स्वान्तिकं योऽनुमेने
नमो गौतमस्वामिने मङ्गलाय ||१३||
५

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110