Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवं प्ररुदतस्तस्य, कियान्कालो व्यतीतवान् । ततः स स्थिरमात्मानं, कृत्वा चिन्तितवानिदम् ॥३११।। निजबन्धोर्मृत्युकृत्यं, करोमि तदनन्तरम् । अग्निदाहं करिष्यामि, कोऽपि ग्रामः समीपगः ॥३१२।। महीरुहं समारुह्य, पश्यताऽथ दिशोदिशम् । दिशि याम्यामपश्यच्च, ग्राममेकं समीपगम् ॥३१३।। जिनरक्षितोऽथ वस्त्रेण, बन्धोर्देहं तरोर्दुतम् । शाखायां सुदृढं बद्धवा, दक्षिणस्यां प्रयातवान् ।।३१४।। रुदन् गच्छन् कियटूरे, नगरं प्राप्तवानसौ । संगृह्णन्नश्रुबिन्दूत्थ- मौक्तिकानि मुहुर्मुहुः ॥३१५।। केनचिच्छेष्ठिना तत्र, लुब्धेन स निरीक्ष्यत । अहो बालो विचित्रोऽयं, मौक्तिकक्षारको मुहुः ॥३१६।। ततः श्रेष्ठी शिशुं लुब्धोऽपृच्छत् त्वं कुत आगतः । किमर्थमिति मां ब्रूहि, तदोवाचाऽर्भकोऽपि तम् ॥३१७।। दयालो ! बन्धुवर्यो मे, वने दष्टोऽहिना मृतः । अस्ति सम्प्रति तस्याऽहं, मृतकृत्यचिकीर्षया ॥३१८॥ इहाऽऽयातोऽस्मि कृपया, तद्दाहार्थसाधनम् । मह्यं देहि भवेद् येन, तस्य दाहक्रिया द्रुतम् ॥३१९।। तन्नेत्राश्रूणि जातानि, मौक्तिकानि मुहुर्मुहुः । तल्लोभपाशबद्धोऽसौ, तमनैषीद् गृहान्तरम् ॥३२०॥ करेङ्गितेन दासं स्व-मादिशत्त्वरितं तदा । मयेमं सप्तमभूम्यां, प्रासादस्याऽस्य सत्वरम् ॥३२१।। नीत्वा स्थापय मञ्जूषा-मध्ये पूरय तन्मुखम् । येनाऽयं नैव निःसर्तुं, प्रभवेज्जातु बालकः ॥३२२।। ततः श्रेष्ठिवचः श्रुत्वा, दासस्तदनुसारतः । नीत्वा तं सप्तमावन्यां, स्थापयामास यत्नतः ॥३२३।।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110