Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ कथा परोपकारः | सा. श्रीसंवेगरसाश्रीः प्राचीनकालस्येमा कथाऽस्ति । तदा शाला महाविद्यालयाश्च नाऽऽसन् । य अभ्यासकरणमिच्छति स्म स छात्रो गुरोर्गृहे स्थित्वा तस्य गृहस्य कार्यं करोति स्म । काष्ठानि आनयति स्म । जलमप्यानयति स्म । तदुद्यानस्य कार्यमपि करोति स्म । गुरुश्च तमध्यापयति स्म । यदा अभ्यास: पूर्णः स्यात्, तदा छात्रो गुरुभ्यो दक्षिणां दत्त्वा निजगृहं गच्छति स्म ।। एकदा एकस्य ऋषेः समीपे आगतयोर्द्वयोश्छात्रयोरभ्यासः पूर्णो जातः । ततस्तौ गुरवेऽकथयताम् - हे आचार्य ! आवां गुरुकुलं त्यक्त्वा गृहं गच्छावः, तत्पूर्वमावां भवते दक्षिणां दातुमिच्छावः । वन्दनं च कृत्वा स्थितौ शिष्यौ दृष्ट्वा गुरुणा कथितं - यदधुना मे काऽपि आवश्यकता नाऽस्ति । तह्यपि युवयोः किञ्चिदपि अर्पणीयं स्यात्, तदा शुष्कानि पर्णानि मत्कृते आनयतम् । . गुरोर्वचनं श्रुत्वा द्वौ छात्रौ ईषद् दूरं वनस्य समीपं गतौ । तत्र चलन्तौ चलन्तौ एकस्य वृक्षस्याऽधस्तात् तौ शुष्कपर्णानां राशिं दृष्टवन्तौ । ततो यावत् तौ पर्णान्यानेतुं गच्छतः स्म, तावत् तत्रैको जनो धावन्नागच्छत् । सोऽवदच्च - इमानि पर्णान्यहं सञ्चितवानस्मि । ततस्तेषामुपरि मेऽधिकारोऽस्ति । अहं तानि पर्णानि मम क्षेत्रं नेष्यामि । शुष्कपर्णानां च भस्म क्षेत्रे क्षिप्त्वाऽहं बहूनि धान्यानि प्राप्स्यामि । ततो युवामिमानि पर्णानि न नयतम् । तच्छ्रुत्वोद्विग्नौ तौ द्वौ अग्रेऽचलताम् । किञ्चिदग्रं गच्छद्भ्यां ताभ्यां द्वाभ्यामेकस्मिन् स्थले कोऽपि बालो दृष्टः । एकल एव स बालः शुष्कानि पर्णानि वटवृक्षस्य शाखया बनन् आसीत् । ततो द्वौ छात्रौ तस्य समीपं गतौ, पर्णानि चाऽयाचताम् । किन्तु स बालः पर्णानि नाऽपर्यत् । तेन तौ बालकमपृच्छतां त्वमिमानि शुष्कानि पर्णानि बद्ध्वा कुत्र गच्छसि ? तानि च किमर्थं नयसि ? तदा सोऽदत् मे पिताऽगदङ्कारोऽस्ति । स पर्णानि पिष्ट्वा तस्मात् सारं रचयति । ततोऽहमिमानि पर्णानि नीत्वा मम गृहं गच्छामि । बालकस्य वचनं श्रुत्वा ग्लानमुखौ तौ द्वौ पुनरग्रेऽचलताम् । ईषदग्रं गत्वा ताभ्यां पर्णानि सञ्चिन्वत्यौ द्वे स्त्रियौ दृष्टे । ततश्शीघ्रं तौ एकं स्त्रियमपृच्छतां - हे अम्ब ! भवती एतानि शुष्कानि पर्णानि किमर्थं नयति ? तदा साऽवदत्, यदहमिमानि शुष्कपर्णानि ममोटजस्योपरि क्षेप्स्यामि । ततो ममोटजो न तप्स्यति । वर्षौ अपीमानि पर्णान्येव ममोटजं रक्षिष्यन्ति । एवं श्रुत्वा तौ द्वौ विस्मितमुखौ जातौ । श्रान्तौ च सजातौ । अथाऽखिले वने न कुत्राऽपि एकं शुष्कं पर्णमपि प्राप्तमतो भ्रान्त्वा भ्रान्त्वा श्रान्तौ तौ द्वौ रिक्तहस्तौ एव पुनराश्रममागच्छताम् । एकमपि शुष्कं पर्णमानेतुं समर्थो न जातो, ततो म्लानमुखौ तौ द्वौ आचार्यस्य समीपमागत्य तद्दिनस्याऽनुभवं तस्मै अकथयताम् । ८३

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110