Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ मर्म नर्म - कीर्तित्रयी ग्लानः चिकित्सकः (चिकित्सकं) महोदय ! भवान् सर्वदा किमर्थमाहारविषयिकी पृच्छां करोति ? अहो ! आहारविषयं ज्ञात्वा युष्माकमार्थिकपरिस्थितिः सुखेन ज्ञातुं शक्या, ततश्च तदनुरूपं देयक(Bill)मपि कर्तुं शक्यम् ! शिक्षकः एकत्र क्षेत्रे एकादश मेषाः सन्ति । तेभ्यश्च षट् यदि पलायेयुस्तदा कति मेषा अवशिष्येरन ? आभीरविद्यार्थी एकोऽपि नैव महोदय ! । शिक्षकः अरे ! पञ्चाऽवशिष्टा भवन्ति न वा ? विद्यार्थी महोदय ! भवान् गणितं तु जानाति परं मेषस्वभावं नैव जानाति !! स्वामी सेवकः स्वामी सेवकः स्वामी सेवकः कुत्र गत आसीत् ? केशकर्तनार्थम् । कार्यकरणवेलायां केशान् कर्तयति वा ? कार्यकरणवेलायां केशा नोद्गच्छन्ति वा ?. ते तु गृहेऽप्युद्गच्छन्ति ननु ! अत एव खलतिर्नैव कारिता । ये केशाग्राः कार्यालये उद्गतास्त एव कर्तिताः !! चौरः अभिभाषकः अयमभियोगः कदा पूर्णो भविष्यति ? मत्कृते घण्टाद्वयेन, त्वत्कृते तु वर्षद्वयेन !! ८६

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110