________________
मर्म नर्म
- कीर्तित्रयी
ग्लानः
चिकित्सकः
(चिकित्सकं) महोदय ! भवान् सर्वदा किमर्थमाहारविषयिकी पृच्छां करोति ? अहो ! आहारविषयं ज्ञात्वा युष्माकमार्थिकपरिस्थितिः सुखेन ज्ञातुं शक्या, ततश्च तदनुरूपं देयक(Bill)मपि कर्तुं शक्यम् !
शिक्षकः एकत्र क्षेत्रे एकादश मेषाः सन्ति । तेभ्यश्च षट् यदि पलायेयुस्तदा कति मेषा
अवशिष्येरन ? आभीरविद्यार्थी एकोऽपि नैव महोदय ! । शिक्षकः अरे ! पञ्चाऽवशिष्टा भवन्ति न वा ? विद्यार्थी महोदय ! भवान् गणितं तु जानाति परं मेषस्वभावं नैव जानाति !!
स्वामी सेवकः स्वामी सेवकः स्वामी सेवकः
कुत्र गत आसीत् ? केशकर्तनार्थम् । कार्यकरणवेलायां केशान् कर्तयति वा ? कार्यकरणवेलायां केशा नोद्गच्छन्ति वा ?. ते तु गृहेऽप्युद्गच्छन्ति ननु ! अत एव खलतिर्नैव कारिता । ये केशाग्राः कार्यालये उद्गतास्त एव कर्तिताः !!
चौरः अभिभाषकः
अयमभियोगः कदा पूर्णो भविष्यति ? मत्कृते घण्टाद्वयेन, त्वत्कृते तु वर्षद्वयेन !!
८६