Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ कथा अस्ति-नास्ति | सा. श्रीनिसर्गप्रज्ञाश्रीः एकदा कश्चन राजा निजममात्यं परीक्षितुमैच्छत् । स तमाहूय कथितवान् यद् - 'नगरमध्यान्मम कृते चत्वारि वस्तून्यानय' इति । 'कानि तानि वस्तूनि ?' इति तेन पृष्टे राजाऽवदत् - 'अस्ति अस्ति, अस्ति नास्ति, नास्ति अस्ति, नास्ति नास्ति चेति । ___ श्रुत्वैतत् सर्वेऽपि सभासदो विस्मिता जाताः । अमात्योऽपि किञ्चित् चिन्तितो जातः । परं सश्रद्धं कथितवान् यत् - 'श्व एतानि चत्वार्यपि वस्तून्यानेष्यामी'ति । ततो गृहं गत्वा स राज्ञोक्तं गभीरतया चिन्तितवान् । घण्टार्धेनैवाऽवगतवांश्च तस्य तात्पर्यम् । ततस्तेन विपणिं गत्वा सर्वत्र निरीक्ष्य च चत्वारो जनाः श्वस्तनदिने राजसभायामागन्तुं समनुनीताः । ततो द्वितीयदिने राजास्थानं गत्वा राज्ञः पुरतस्तेन चत्वारोऽपि जना उपस्थापिता: कथितं च - 'प्रभो ! भवत आज्ञानुसारमेतानि तानि चत्वारि वस्तूनि भवत्कृते समानीतानि सन्ति । राज्ञोक्तं - कथमिव ? तदा तेन प्रथमवेव चतुर्णां जनानां मध्यात् श्रेष्ठिनमेकमग्रेकृत्य कथितम् - 'अयं हि प्रथमं वस्तु “अस्ति अस्ति" इति' । 'तच्च कथं ननु ?' इति राज्ञा पृष्टे तेनोक्तं - 'प्रभो ! श्रेष्ठ्ययमस्मिन् जन्मनि सुखसम्पत्तियुतोऽस्ति यतस्तेन पूर्वजन्मनि सत्कृत्यानि कृतानि । परत्र चाऽपि स सुखीभविष्यति, यतः स इह जन्मन्यपि सन्नीत्या व्यवहरन् धर्मकृत्यानि करोति । अत: अस्ति - अस्ति इति सिद्धं खलु !' । ततस्तेनैका वेश्या राज्ञः पुरस्कृत्य कथितम् - 'इयमस्ति द्वितीयं वस्तु "अस्ति नास्ति' इति । यतस्तया पूर्वत्र सत्कर्माणि कृतान्यत इह सा सुखं प्राप्तवती, परन्तु कुकर्माणीहाऽऽचरन्ती सा परत्र दुःखीभविष्यतीति अस्ति नास्ति इति सिद्धम्' । तदनन्तरमेकस्तपस्वी साधुस्तृतीयवस्तुरूपेणाऽग्रे कृतः कथितं च - 'अयं हि तपस्वी साधुरत्र जन्मनि सर्वथा निष्किञ्चनोऽस्ति परं परत्र तपःप्रभावेण महासुखी भवितेति नास्ति अस्ति इति सिद्धम् । पश्चाच्च तेनैको धीवर उपस्थाप्य कथितं – 'प्रभो ! अयं चतुर्थवस्तुरूपो जनो धीवरोऽस्ति । स हि पूर्वत्र दुष्कर्मकारकत्वेनाऽत्र दुःख्येवाऽस्ति परत्र चाऽपि दुःख्येव भविता यत इहाऽपि स हिंसादिकं दुष्कर्म एव कुर्वन्नस्ति' । ___सोदाहरणं स्वप्रश्नानामुत्तरं प्राप्य राजाऽमात्योपरि प्रसन्नोऽभवत् तस्मै पारितोषिकं चाऽपि दत्तवान् ।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110