Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ चिकित्सकः व्याधितः भवत: कर्णयोः श्रवणयन्त्रविन्यासेन भवत्परिवारजनानां सौविध्यं जातं स्यात् ननु ? नैव महोदय ! मया तेषां नैव कथितं यच्छ्रवणयन्त्रं विन्यासितमिति । किन्त्ववगतं मया यद् द्रुतमेव मदीयमन्तिमादेशपत्रं (Will) परावर्तनीयं मया !! - - - - किं भवान् जानाति, कोऽहमस्मीति ? भवानेव वदतु, कोऽस्ति भवान् ? अस्म्यहं महाकविः ! बाढम् । अहमस्मि निरक्षरः !! दग्धः किमिति भवान् मूर्खवद् भाषते ? किं वा करवाणि तर्हि ? वैदग्ध्यपूर्णं तु भवान् नैवाऽवगच्छति !! विदग्धः भिक्षुकः पत्नी (दम्पती आगच्छतः) हे सुन्दरि ! अन्धजनाय पञ्च रूप्यकाणि प्रदेहि । (पतिस्तस्मै दशरूप्यकपत्रं प्रदत्ते) (कोपेन) किं धनमतिरिक्तं जातं वा ? । नैव भोः !, किन्तु स सत्यमेवाऽन्धोऽस्तीत्यतः !! पतिः । दग्धः . पुत्रः कस्मिन्नपि व्यवसाये सफलीभवितुं द्वौ गुणावत्यन्तमावश्यकौ स्तः - प्रामाणिकता चातुर्यं च । प्रामाणिकता नाम किम् ? तन्नाम यदप्यस्माभिः प्रतिज्ञातं तत् सर्वथा पालनीयं, महत्यामपि च हानौ ततो न पराङ्मुखीभवितव्यम् । बाढम् । अथ चातुर्यं नाम किम् ? चातुर्यं नाम कदाऽपि कस्मिंश्चिदप्यर्थे नैव प्रतिज्ञातव्यम् !! पुत्रः पिता सुहृत् स्वयं कोटिजनेषु अद्वितीय इति मन्वानः स मनोरोगी किञ्चित् सज्जो जातो वा ? मानसचिकित्सकः आम् । स शनैः शनैः सज्जो जायमानोऽस्ति । इदानीं स निजं लक्षजनेष्वद्वितीयं मन्यते !!

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110