Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
विरलानि संस्कारमूल्यानि
- मुनिअक्षयरत्नविजयः
(१) संस्कारबीजारोपणम्
कश्चिज्जनः स्वसन्तानेन सह मेलस्य दर्शनाय गतवान् । मेलस्य सङ्कुलं गत्वा मेलार्थं मूल्यपत्रिकाग्रहणाय स मूल्यपत्रिकागवाक्षं गतवान् । तेन तत्रस्थोऽधिकारी पृष्ट: - ‘भोः ! मेलका) कीदृशं मूल्यं देयमस्ति ?"
अधिकारी प्रत्युक्तवान् - "भवतः कृते दशरूप्यकमितं मूल्यमस्ति, परं षड्वर्षीयबालार्थं मूल्यं नास्ति ।"
"ततो द्वे मूल्यपत्रिके यच्छ ।" स भ्राता उक्तवान् । "परं भ्रातः ! बालार्थं मूल्यं नास्ति ।" अधिकारी कथितवान् । "परं मम बालोऽयं सप्तवर्षीयोऽस्ति । अतस्तस्याऽपि मूल्यपत्रिका क्रेतव्याऽस्ति ।"
अधिकारी साश्चर्यम् उक्तवान् - "महाशय ! यदि भवान् "बाल: षड्वर्षीयोऽस्ति' इति असत्यमवदिष्यत्, तॉपि मया किञ्चिन्नाऽज्ञास्यत् । ततः कथं धनव्ययः कृतः ?"
अथ स संस्कारशीलो भ्राता प्रत्युक्तवान् - "मित्र ! ममाऽसत्यवचनेन त्वं काममज्ञात एवाऽभविष्यन्, परं मम पुत्रेण तु ज्ञातमेवाऽभविष्यत् - 'अहमसत्यं वदामी'ति । कालान्तरे सोऽपि असत्यं वदेदिति नाऽहमिच्छामि । अतो मया एतत् कृतम् । धनव्ययो भवेत् तस्मिन् मम न कोऽपि बाधः । किन्तु पुत्रमनसि कुसंस्कारबीजस्य रोपणं भवेत्, तेन च निम्नमुदाहरणं प्राप्येत, तस्मिन् महान् बाधोऽस्ति ।"
मूल्यपत्रिकाविक्रेता तु नतमस्तकोऽभवत् - 'कलियुगेऽपि एतादृशी संस्कारभावना विद्यमानाऽस्ती'ति चिन्तनेन । अस्माभिरपि जीवनमेतादृशं जीवितव्यं येनाऽन्यैः शोभना प्रेरणा प्राप्येतेति कथासारांशः ।
(२) धैर्यम् इयं कथा कल्पनाकलिताऽस्ति ।
एकदा कस्मिंश्चिद् दुग्धालये दुग्धसारस्यैकस्मिन् भाजने द्वौ द१रौ पतितवन्नौ । बहिनिर्गन्तुं ताभ्यां बहुः प्रयत्नः कृतः । पश्चादेको द१र उक्तवान् - "मित्र ! अधुनाऽस्माकं मृत्युनिणीत एवाऽस्ति । सर्वे प्रयत्ना व्यर्थाः सन्ति ।"

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110