Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ कथा अहङ्कारः - मुनिधर्मकीर्तिविजयः कश्चिदेकः श्रेष्ठी सद्गुरुं वन्दितुमागतवान् । गुरुः स्वसाधनायां मग्न आसीत्, ततः स श्रेष्ठी गुरोः सांनिध्ये उपाविशत् । गुरोर्दैहाद् निर्गच्छन्ति आन्दोलनान्यनुभूतानि । तस्य हदि परमशान्तिर्जाता । प्रसन्नमनसा तेन श्रेष्ठिना चिन्तितम् - सद्गुरोः सांनिध्येन क्षणमात्रेणैतावती शान्तिरनुभूयेत मया तर्हि आजीवनं गुरुचरणसेवनेन कियती शान्तिः प्राप्येत ? मनस्याजीवनं गुरुचरणसेवनस्याऽभिलाषा सञ्जाता । श्रेष्ठिना विज्ञप्तिः कृता - गुरुदेव ! मह्यं दीक्षां देहि ? गुरुणोक्तम् - सर्वमपि विहाय त्वमागच्छ, पश्चाद्दीक्षां दास्यामि ।। श्रेष्ठी सर्वमपि विहातुं सन्नद्धो जातः । गृहं गतवान् । पुत्रो नाऽऽसीत्, पत्नीश्चाऽपि मृताऽऽसीत्, अतो न कोऽपि प्रष्टव्योऽस्ति । धनं गृहं गृहवस्तु चेति सर्वमपि धर्मसंस्थायै तेन समर्पितम् । स्वसमीपे तेन रूप्यमेकमपि न रक्षितम् । ___बाह्यदृष्ट्या श्रेष्ठिना सर्वं त्यक्तं, किन्तु मनसि सूक्ष्माहङ्कार आसीत् । ततस्स चिन्तयति-बहवो लक्षाधिपतयः कोट्याधिपतयश्च शिष्या गुरोः समीपे सन्ति, किन्तु मादृशोऽर्बुदपतिः शिष्यो न कोऽप्यस्ति । ततो गुरुर्मां दृष्ट्वा प्रसन्नीभूयाऽवश्यंतया मामालिङ्गिष्यति, इति चिन्तयन् स गुरोः समीपे आगतवान् । गुरुणा तस्य मुखं दृष्टम् । गुरुर्मनोगतभावज्ञ आसीत् । ततो गुरुणोक्तं-भवान् गच्छतु, दीक्षायोग्यो नास्ति । श्रेष्ठी चकितो जातः । बहिर्गत्वा स चिन्तयति - कुत्र गच्छेयम् ? अहं तु सर्वमपि त्यक्त्वाऽऽगतः ! मम समीपे गृहं धनं च किमपि नास्ति । किं करवाणि ? शनैः चलन् स श्रेष्ठी उद्याने गत्वोपविशति । पुनः शान्तमनसा स विचारयति - कथं गुरुणा मह्यं दीक्षा न दत्ता ? गुरुस्तु उत्तम एवाऽस्ति, ममैव काऽपि क्षतिरस्तीति । श्रेष्ठिना क्षणं गुरोर्वाक्यं चिन्तितम् - "सर्वमपि विहाय आगच्छ ।" पुनः पुनरेतद्वाक्यं चिन्तयति स श्रेष्ठी । अहो ! ज्ञातं ज्ञातम् । गुरोर्वाक्यस्य मर्म ज्ञातं मयाऽद्य । त्यजनशब्दस्य सम्बन्धो न केवलं बाह्यपदार्थैः सह युक्तः, किन्तु चित्तवृत्तिना सहाऽपि योज्यः । मया धनं गृहं चेति सर्वं त्यक्तं किन्तु हृदि 'अहमर्बुदपति'रिति तीव्रतयाऽहङ्कारो भृतोऽस्ति । अत एव गुरुणा दीक्षा न प्रदत्ता मह्यम् । एष ममैवाऽपराधोऽस्ति । पुनः स श्रेष्ठी निर्मलमनसा गुरोः समीपे गतवान् । गुरुणा श्रेष्ठिनो मनोगतभावा दृष्टाः । तत्क्षणं गुरुणा स श्रेष्ठी स्वोरस्यालिङ्गितः, दीक्षा च दत्ता श्रेष्ठिने । * * * ७६

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110