Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ हर्षोत्कर्षोमिमालाभि-रुद्यद्-हृदयसागरा । तौ सुतौ सहसोत्थाप्य, प्रालिलिङ्ग सुभाग्यभाक् ॥४८०।। जिनदत्तोऽपि पितरौ, निजसिंहासनोपरि । संस्थाप्योवाच युष्माकं, पुण्यपुञ्जप्रभावतः ॥४८१॥ राज्यमेतन्मया प्राप्तं, नाऽत्र शङ्कालवोऽपि हि । स्वीकरोतु कृपां कृत्वा, तद् रे तात ! गुणाम्बुधे ! ॥४८२॥ (युग्मम्) वयं च वः पदाम्भोजे, निषेविष्यामहि सदा । समयं प्राप्य कल्याण-मयं को गमयेत् सुधीः ? ॥४८३॥ पितरावूचतुः पुत्रौ !, यावज्जीवं सुभाग्यतः । इदमाराधितस्याऽहो-धर्मकल्पतरोः फलम् ॥४८४॥ तस्माद् युवामपि प्राज्य-भक्तिसम्भृतमानसौ । भवतं सर्वदा पुत्रा-वपि धर्मोन्मुखावुभौ ॥४८५।। दीनानाथादिसत्त्वेषु, दयाकृत्येषु तत्परौ । जिनेश-गुरुवर्याणां, भक्तारौ च बभूवतुः ॥४८६।। श्रेष्ठिसुतवधायाऽऽज्ञां, निजां स्मरंस्तु ठक्कुरः । मनुते स्वमपराद्धं, लज्जया म्लानमानसः ॥४८७।। वधादेशभवं मन्तुं, निजं क्षामयितुं तदा । सपुत्रजिनदासस्य, समीपमुपजग्मिवान् ॥४८८॥ परादरेण नम्रः सन्, नमति स्म पदाम्बुजे । नृपोऽपि चक्षमे तस्याऽगाधमप्यपराधकम् ॥४८९।। प्रदात्रे आश्रयस्याऽथ, ठक्कुरायाऽपि भूपतिः । ददौ प्रत्युपकारार्थं, ग्रामान् मुदितमानसः ॥४९०॥ जिनदत्तनरेन्द्रोऽसौ, जिनरक्षितसंयुतः । स्वकीयपितृनिर्बन्धात्, सिंहासनमधिष्ठितः ॥४९१॥ शक्तिमान् स शशासाऽथ, राज्यं निर्नष्टकण्टकम् । पुत्रवत् पालयामास, प्रजाः सर्वाः दयाहृत् ॥४९२॥ ७४

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110