Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तदाकर्ण्य नरेन्द्रस्तु जगाद परुषाक्षरैः ।
श्रेष्ठिस्त्वया किमप्यत्र, न वक्तव्यं नराधम ! ॥४४१॥
नरनाथः पुनः शीलवतीं प्रपच्छ सादरम् । पुत्रि ! त्वमेव कथय, सोऽधुना कुत्र वर्तते ? ॥४४२॥
ततः सोवाच हे राजन् ! कृपणश्रेष्ठिनाऽमुना । प्रासादस्याऽस्य सप्तम्यां भूमिकायां दयां विना ॥ ४४३||
मौक्तिकानां प्रलोभेन, मौक्तिकक्षारकः सकः । मञ्जूषाभ्यन्तरे क्षिप्तो, वर्तते नरनायक ! ||४४४ ॥ एवं श्रुत्वा नरेन्द्रो, द्राक्, परिवारसमन्वितः । गत्वोपरि स मञ्जूषा - मध्येऽपश्यत् स्वसोदरम् ॥४४५॥ ततो निष्कास्य हर्षेणा - ऽऽलिङ्गयद् गाढमञ्जसा । विरहानलसन्तापः, शान्तिमापाऽश्रुधारया ||४४६॥ चिरात् स्वबन्धुसङ्गत्या, सपरिच्छद - भूपतेः । अद्भुतातुलितामन्दा-नन्दसन्दोह उद्ययौ ॥४४७|| मौक्तिकक्षारकस्याऽपि, दैवाद् बन्धोः समागमात् । विशेषतस्तथैवाऽभूत्, प्रमोदोऽतुलितोऽद्भुतः ॥४४८॥
राजाऽनुजं निजं वृत्तं, व्यालदंशनतः समम् । आरभ्य विषमोक्षान्त - मुक्त्वा तं तत् स्म पृच्छति ॥४४९ ॥
स च श्रेष्ठिगृहाऽऽगत्या, आरभ्य सकलं निजम् । शीलवत्या विवाहान्तं, वृत्तान्तं हि न्यवेदयत् ॥४५०||
ततोऽसौ धरणीनाथो, रोषारुणेक्षणोऽभवत् । एतादृक्षे हि निःशूके, कस्य रोषो न जायते ? ||४५१||
नृपोऽथ कृपणं क्रुद्धो, वध्यं स स्वकमादिशत् । नृपाः क्षाम्यन्ति नाऽन्यायं, विशेषं बान्धवे कृतम् ॥४५२||
कनिष्ठस्य तु विज्ञप्त्या, विहायाऽऽज्ञां वधेऽस्य हि । नरेश्वरोऽखिलां लक्ष्मीं, तदीयामपहारयत् ॥४५३॥
७१

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110