Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अन्येद्युस्तातप्रहितः, स कुष्ठी श्रेष्ठिनन्दनः । शीलवत्या समीपं चाऽऽगच्छन् दास्याऽवमानितः ॥४१५।। निःश्रेण्या अध आक्षिप्त-चूर्णिताङ्गो ह्यजायत । एवं यदा यदा सोऽगाद्, दास्यक्षैप्सीत्तदा तदा ॥४१६।। अधस्तात् कुष्ठिनं श्रेष्ठिनन्दनं निन्द्यविग्रहम् । तेनैवं निरचैषीत् स, नाऽत्रैष्यामि कदाऽप्यहम् ॥४१७॥ कति व्यतीयुरेवं हि, दिनानि श्रेष्ठिसद्मनि । न मेने कस्यचिद् वाक्य-मसौ शीलवती सती ॥४१८।। एकदा कृपणश्रेष्ठी, चिन्तयामास चेतसि । यदि तां धरणीनाथो, बोधयेत् तर्हि मंस्यते ॥४१९॥ एवं विचिन्त्य विविधै-रुपहारैर्वरैर्नृपम् । उपेत्योपहतिं दत्त्वा, स्ववृत्तान्तं न्यवेदयत् ॥४२०॥ स्वस्नुषाबोधनार्थाय, प्रार्थयामास पार्थिवम् । भविष्यति शुभं किञ्चि-दिति मत्वा स भूपतिः ॥४२१।। स्वीकृत्यैतदवोचच्च, श्व एष्यामि तवाऽऽलयम् । ततोऽसौ कृपणश्रेष्ठी, निजगेहं समागतः ॥४२२।। नृपागमनवृत्तान्तं, स्वकुटुम्बं न्यवेद्य सः । सज्जीचकार राजार्ह - सत्कारोपस्करं वरम् ॥४२३॥ परिवारैर्वृतः प्रागात्, कृपणश्रेष्ठिसद्मनि । द्वितीयदिवसे राजा, प्रधानप्रमुखैनिजैः ॥४२४।। स्वार्थसिद्ध्यै सुधीः सर्वं, कालोचितं समाचरेत् । श्रेष्ठी तस्य नरेन्द्रस्य, सुष्ठु स्वागतमाचरत् ॥४२५।। अन्तर्वेश्मोपविश्याऽथ, विशांपतिः नरोत्तमः । प्रासादमध्यभागस्य - सिंहासनमधिष्ठितः ॥४२६।। परस्त्रीणां मुखं नेक्ष्यमिति चारुविचारतः । श्रेष्ठिस्नुषां जवनिकाऽभ्यन्तरे स्वानिरीक्षताम् ॥४२७॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110