Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ बालस्यैवं वचः श्रुत्वा, ठक्कुराज्ञावशंवदः । अवदत् तं घन- क्रूर-कर्मलुप्त-विवेकधीः ॥२८५|| अहं वर्ते पराधीन-स्तत् वां यदि जहाम्यहम् । ठक्कुरो मां ध्रुवं हन्यादिति त्यक्तुं क्षमोऽस्मि न ॥२८६।। एवमुक्त्वा स चाण्डालः, खड्गमादाय तौ शिशू । हन्तुं प्रायुक्त तत्पुण्य-प्रभावात् स च नाऽचलत् ॥२८७|| पुण्योदये हि सकलं, विघ्नं नश्यति तत्क्षणम् । नश्यति हि तमोऽवश्यं, सूर्ये तुङ्गोदयाचले ॥२८८॥ ततः सञ्जातकरुण-श्चाण्डालस्तौ न्यवेदयत् । उपायमेकं कल्याण-कारकं सूचयाम्यहम् ॥२८९॥ हे बालौ ! यदि नैवाऽत्र, ग्रामेजातु भ्रमादपि । आगच्छेतं तदा नूनं, मुञ्चेयं न चाऽन्यथा ॥२९०।। एवमस्त्विति तौ बालौ, चाण्डालं प्रति ऊचतुः । मौक्तिकानि च ददतुः, संगृहीतानि भूरिशः ॥२९१।। चाण्डालस्तदा तूर्णं, तत्सौन्दर्यविमोहितः । प्राप्तमौक्तिकजातोऽसौ, मुमोच वधनिःस्पृहः ॥२९२।। पुराकृतानि पुण्यानि, रक्षन्तीति वचो ध्रुवम् । यन्नृशंसजनस्याऽपी-दृशी जाता दया हृदि ॥२९३।। चाण्डालष्ठक्कुरं गत्वा, प्रोवाच तुष्टमानसः । स्वामिस्त्वदाज्ञया बालौ, वधस्थाने व्यघातयम् ॥२९४॥ ठक्कुरस्त्वद्वचः श्रुत्वा, संजातप्रत्ययस्तदा । सुखं निर्गमयामास, कालं कृत्यपरायणः ॥२९५॥ इतश्च वधनिर्मुक्तौ, पितृभ्यां तु वियोजितौ । चलन्तौ नगराण्येतो, बहूनि चोल्ललङ्घतुः ॥२९६।। यन्तौ रुदन्तौ संप्राप्तौ, विपिनं गहनं शिशू । पित्रोवियोगजं दुःखं, सहमानौ सुदुःसहम् ॥२९७|| ५९

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110