Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ सविता प्रातरुद्याति, सायमस्तं प्रयाति च । पुरुषाः प्रागनेकेऽपि, किं किं दुःखं न लेभिरे ? ॥२५।। लक्ष्मीदेव्यपि तच्छ्रुत्वा-ऽनुकूलं तमुवाच सा । गुणानुरक्ता सप्ताह-मत्र स्थास्यामि त्वद्गृहे ॥२६।। इति प्रोच्य श्रियां देव्यां, गतायां स्वीयसद्मनि । प्रातः प्रमुदितस्वान्तः, श्रेष्ठ्येवं स व्यचिन्तयत् ? ॥२७।। यियासुश्चेत् स्वयं लक्ष्मीः, स्नेहबद्धा यदृच्छया । दानमेव वरं मन्ये, तस्याः सदुपयोगकृत् ॥२८॥ यानि यानि च तस्याऽऽसन्, सारवस्तूनि सद्मनि । पात्रेभ्यस्तानि सर्वाणि, दातुं स समकल्पयत् ॥२९॥ कुर्वन् दानं चकाराऽसौ, दीनानपि महेश्वरान् । निःस्वोऽष्टमेऽहन्यभूच्छ्रेष्ठी शरदीव बलाहकः ॥३०॥ अत्र स्थितिरयोग्येति, निश्चित्य नगराद् बहिः । सकुटुम्बो सरित्तीरे, स स्वप्रासादमासदत् ॥३१॥ रात्रौ मुशलधाराभि - मेघोऽवर्षत् समन्ततः । नीरपूरेण जीर्णः स, प्रासादो भुवि संम्रसे ॥३२॥ जीर्णे गृहेऽप्यवस्थानं, न दैवेनाऽनुमन्यते । इत्यारोहत् स नेदिष्ठं, तरुं स्त्रीपुत्रसंयुतः ॥३३|| स सौधानिस्सरत् सारवस्तुजातेन सङ्लात् । स्वर्णस्थालभृतां गोणी, तत्र वीक्ष्य व्यचिन्तयत् ॥३४॥ वारिपूरे समस्तानि, वस्तूनि मम साम्प्रतम् । बहुमूल्यानि गच्छन्ति, चेद् गच्छन्तु समन्ततः ॥३५॥ एतन्मध्यात् कृषेयं चेत्, स्थालमेकं तदा मम । आयतौ स्यात् फलायेति, स्थालं क्रष्टुं स प्रावृतत् ॥३६।। किन्त्वन्तरायदोषेण, कृष्टे स्थालेऽपि तत्करे । तत्कण्ठखण्ड एवाऽऽगा-दहो भाग्यविचित्रता ! ॥३७।।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110