Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ताड्यमानोऽपि विपुलं, तूष्णीं तिष्ठन् हि तत्क्षणे । मुञ्चन्नश्रूणि नेत्राभ्यां, किञ्चिन्नाऽवङ्मुखेन स ॥१०३।। रुदन्तं तं तथा दृष्ट्वा , धैर्यातिशयशालिनम् । पप्रच्छ विस्मितः श्रेष्ठी, किं ते रोदनकारणम् ॥१०४।। जिनदासस्तदोवाचा-ऽकथनं कथनाद् वरम् । बाढं विसिष्मिये श्रेष्ठी, श्रुत्वा तद्वचनं मृदु ॥१०५।। अन्वयुक्त तदाऽतीवा-ऽऽग्रहेणाऽमुं स सादरम् । ब्रूहि सत्यं त्वमेतस्य, कारणं संशयापहम् ॥१०६।। धर्माग्रहं तथा मत्वा, जिनदासोऽब्रवीदिदम् । अये स्थाली: संगणय्य, मां त्वं पृच्छ महाशय ! ॥१०७।। इति तस्य वचः श्रुत्वा, धर्मदासेन सत्वरम् । आहूय किङ्करः पृष्टः, किं स्थाल्यो गणिता न वा ? ॥१०८।। प्रत्युवाच ततो भृत्यः, स्थाल्यो नो गणिता मया । विनैव गणनां नाथ !, स्थूलदृष्ट्या विलोकिताः ॥१०९।। सन्ति स्थाल्योऽखिलाः किन्तु, न दृष्टा कण्ठखण्डिता । एतावदेव विज्ञाय, मयोक्तं ते तथा तदा ॥११०।। इदानी गणितास्ताश्च, सम्पूर्णाः सन्ति पूर्ववत् । आश्चर्यं केवलं तत्र, याऽऽसीत् कण्ठखण्डिता ॥१११।। साऽपि जाता कथं पूर्णा, स्थालीयं शिल्पिना विना । मन्त्रतन्त्रप्रयोगोऽपि, न जातो ज्ञानगोचरः ॥११२।। (युग्मम्) तन्निशम्य तदाऽऽलोक्य, विचित्रां घटनामिमाम् । अवादि धर्मदासेन, पश्चात्तप्तेन तं प्रति ॥११३।। पादाऽऽघातैः प्रहृत्य त्वां, जिनदास ! निरागसम् । अनभिज्ञाततत्त्वेन, मयैवं दृष्कृतं कृतम् ॥११४|| क्षन्तव्यो मेऽपराधोऽयं, जिनदास ! महामते ! । अविचारितमेवैतत्, कृत्यं कल्मषकारणम् ॥११५।।
४५

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110