Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ कथं नो मोदकैरेतै-निर्वाहोऽत्र भविष्यति । विक्रीतेषु मोदकेषु, कार्यं स्यादतिशोभनम् ॥१६८।। यतो मोदकमूल्येन, बहु द्रव्यं भविष्यति । व्यत्येष्यन्ति दिनानीत्थं, तेन सप्ताधिकं सुखम् ॥१६९।। भूयो भूयो विचार्येत्थं, हट्टं कान्दविकं ययुः । कथयामासुरेतं भोः !, श्रोतव्यं नो निवेदनम् ॥१७०॥ अत्रेमान् मोदकान् भद्र !, विक्रेतुं वयमागताः । गृह्णातूचितमूल्येन, तत्त्वं जानासि यत् स्वयम् ॥१७१।। सरसांस्तान् सुगन्धींश्च, मोदकानवलोक्य सः । तन्मूल्यमुचितं दत्त्वाऽक्रीणात्तेभ्यो द्विरूप्यकम् ॥१७२।। न्यदधात् स च तानात्म-हट्टे यत्नेन भूयसा । बहुमूल्येन दास्यामि, ग्राहकेभ्य इतीच्छया ॥१७३।। द्वितीया दिवसे प्रात-धर्मदासस्य बालकाः ।। गृहे बुभुक्षिता जाताः, प्रातराशं विना तदा ॥१७४।। किञ्चिदन्नं न वा भोज्यं, सिद्धमासीत् सुतुष्टिदम् । आहूय सेवकं श्रेष्ठी, प्रेषयामास तत्क्षणम् ॥१७५।। भोज्यानयनकामोऽयं, हट्टं कान्दविकं ययौ । सेवकस्तत्क्षणं तत्र, विमृशन् ग्राह्यतां पुनः ॥१७६।। गृहीतौ मोदको येन, रूप्यकद्वयमूल्यतः । दैवात्तमेव सम्प्राप्तो, हट्टे कान्दविकं तु सः ॥१७७॥ ततस्तं धर्मदासस्य, किङ्करस्त्वरयाऽऽकुलः । पक्वान्नं सरसं स्वादु, याचते स्म निदेशतः ॥१७८।। ततः कान्दविकः शीघ्रं, गृहीत्वोचितमूल्यकम् । सेवकाय ददौ तस्मै, यथावस्थं द्विमोदकम् ॥१७९।। मोदकद्वयमादाय, सेवक आगतस्ततः । श्रेष्ठिने प्रदायैवं, तस्याऽऽदेशः प्रपालितः ॥१८०॥ ५०

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110