Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ जिनदासं च ते वीक्ष्य, प्रोचुः परुषया गिरा । रे ! ते पार्श्वेऽस्ति किं वस्तु, सत्यं सत्यं निगद्यताम् ॥१५५।। अन्यथा प्रहरिष्याम-श्चण्डदण्डेन भूरिशः । दीयन्तां हि समस्तानि, वस्तूनि क्षेमकाटिभिः ॥१५६।। विचारितं तदा तेन, जिनदासेन धीमता । निर्भाग्येन गृहीतानां, मोदकानामिदं फलम् ॥१५७।। तस्मात्तदर्पणं श्रेय, इति सत्यं जगाद सः । पाथेयं बालयोरस्ति, मोदकानां चतुष्टयम् ॥१५८।। नैवाऽन्यत् किञ्चिदस्तीह, संदेहऽश्चेद् विलोक्यताम् । गृहीताश्च ततः सर्वे, मोदकास्तैस्तु हारकैः ॥१५९।। फलाहारेण निर्वाहं, कुर्वन्तश्च जिनादयः । अग्रे गच्छन्त एवैते, कस्याऽपि करुणावतः ॥१६०।। ठक्कुरस्य ततो ग्राम-मेत्य संप्रार्थ्य तं पुनः । निजावासकृते योग्यं, सर्वसामग्रीसंयुतम् ॥१६१।। स्थानं वीक्ष्य ततस्तैस्तु, निषद्या विहिता तदा । सर्पिस्तैलगुडादीनि, विक्रेतुं तत्र स न्यधात् ॥१६२॥ (युग्मम्) वाणिज्यव्यवहारेण, दम्पत्योर्जीविकाऽभवत् । स्वं स्वं कालमवेक्ष्यैव, सर्वे जाताः क्रियापराः ॥१६३।। यदा समीपग्रामेषु, विक्रयार्थं स गच्छति । तदा पणायते हट्टे, तद्भार्या शेमुषीमती ॥१६४।। गच्छन्तौ पाठशालां तद्-बालावास्तां दिने दिने । इत्थं तेषां गते काले, निर्विघ्नेनाऽल्पवासरे ॥१६५॥ इतः काष्ठहरास्ते तु, दैवयोगेन संगताः । जिनदासाद् गृहीतं यै-र्मोदकानां चतुष्टयम् ॥१६६।। विमलं नगरं प्राप्य, निर्भाग्यत्वेन निर्जितैः । विचारितं तदा तैस्तु, जीविकाकृष्टमानसैः ॥१६७।। ४९

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110