Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ हेतौ जिज्ञासिते तत्र, धर्मदासेन हार्दतः । जिनदास उवाचाऽति-मामिकं वचनं तदा ॥१४२।। यस्य भोजनमात्रेण, सञ्जाता ताडना मम । मोदकादनसक्तानां, न जाने किं भविष्यति ? ॥१४३।। अतोऽहं प्रार्थये श्रेष्ठिन् !, मोदकग्रहणाद् वरम् । निखिलापत्तिहेतूनां, तेषामग्रहणं ननु ॥१४४॥ एवं जिनवचः श्रुत्वा, धर्मदास उवाच तम् । यदि त्वं शङ्कसे लातुं, तर्हि मा लाहि मोदकौ ॥१४५।। दम्पत्योर्न ददे किञ्चित्, किन्तु बालकहेतवे । चतुष्टयं मोदकानां, साग्रहं प्रेमपूर्वकम् ॥१४६।। तदपि तं गृहीत्वा ते, सर्वे ग्रामाद् बहिर्ययुः । तरुच्छायां समाश्रित्य, वसन्ति स्म यथारुचि ॥१४७।। (युग्मम्) - अन्येधुरग्रे गच्छद्भि-विपिने तैश्च सङ्गताः । मध्याह्ने विमलापुर्यां, वास्तव्याः काष्ठहारकाः ॥१४८।। ग्रहीतुं ते हि काष्ठानि, संभूय वनमागताः । किन्तु वृष्ट्यनुरोधेना -ऽप्राप्य काष्ठानि दुःखिताः ॥१४९॥ चिन्तयामासुरेवं ते, काष्ठालाभेन व्याकुलाः । अहोऽस्माकं महत्कष्टं, दुर्दैवात् समुपस्थितम् ॥१५०॥ किमद्य भक्षयिष्यामः किं वा दास्यामहे गृहे । क्षुत्तृडार्तकुटुम्बाय ?, भूयो भूयो मिथो जगुः ॥१५१।। चिन्तितं च तदा तैस्तु, क्वचित्काले समागते । जनमान्यैर्बुधैश्चाऽपि, गम्यते चोत्पथेन वै ॥१५२।। लुण्टनस्य प्रयोगेण, निर्वोढव्याऽद्य जीविका । इत्थं निश्चिन्वतां तेषां, सञ्जातस्तैः समागमः ॥१५३।। भीमकायान् महाघोरान्, साक्षाद्यमसहोदरान् । दृष्ट्वा सर्वे तदा जग्मुः, किं कुर्यामेति मूढताम् ॥१५४।। ४८

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110