Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अप्यन्यद् भारपट्टादि, पल्यङ्कादि महाशय ! । चारूणि काष्ठजातानि, महार्घ्याणीति बुध्यताम् ॥ १२९ ॥
धर्मदासवचः श्रुत्वा, निदासोऽब्रवीत्तदा । सन्ति यत्र च वस्तूनि तानि सर्वाणि साम्प्रतम् ॥१३०॥ तं देशं मां नयन्त्वाशु, श्रीमन्तस्तत्त्वदर्शिनः । हेतुगर्भं वचः श्रुत्वा, तदा तैस्तत्र प्रापितः ॥१३१॥ तत्रैकं जिनदासोऽसौ, स्थूलपट्टं द्विधाऽकरोत् । लक्षमूल्यानि रत्नानि, निर्गतान्यैक्षताऽमुतः ॥१३२॥
एवं वीक्ष्य ततस्तत्र, धर्मदासेन चिन्तितम् । अस्यैव निखिला सम्प- दस्मै देया हि सत्वरम् ॥१३३॥
एवं स्वचित्ते निर्धार्य, धर्मदासो महाशयः । तद्वस्तुजातं तस्मै हि, दातुं समुपचक्रमे ॥१३४॥
त्वदीयं वस्तु भोः श्रेष्ठिस्तुभ्यमेव समर्प्यते । गृहाण तत्कृपां कृत्वा, स्वकं दुःखं निवारय ॥ १३५ ॥ तदोक्तं जिनदासेन, क्षीणपुण्यस्य मे यदि । ऋद्धिर्नष्टाऽखिला दैवा - तव पार्श्व समागमत् ॥१३६॥ अवशिष्टं न ही पुण्यं तदा तद्ग्रहणेन किम् ? । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१३७॥ इति निश्चित्य मनसा, तं खण्डं त्यक्तवानहम् । अत एव ग्रहीष्यामि न किञ्चिद्वस्तु साम्प्रतम् ॥१३८॥ एवमुक्त्वाऽग्रतो यान्तं, जिनं धर्मोऽब्रवीत् पुनः । गृहाण किञ्चिद्रनं त्वं सर्वेप्सा चेन्न ते सखे ! ॥१३९॥
अथाऽपि नाऽग्रहीत् किञ्चि-ज्जिनदासस्तदा ततः । प्रत्येकं बालकाभ्यां तु, सरनं मोदकद्वयम् ॥१४०॥
पाथेयं धर्मदासेन, दत्तं स्वोपकृतौ मुदा ।
न स्वीकृतं तद् बालाभ्यां पितुराज्ञानुसारतः ॥ १४१ || ( युग्मम्)
४७

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110