SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अप्यन्यद् भारपट्टादि, पल्यङ्कादि महाशय ! । चारूणि काष्ठजातानि, महार्घ्याणीति बुध्यताम् ॥ १२९ ॥ धर्मदासवचः श्रुत्वा, निदासोऽब्रवीत्तदा । सन्ति यत्र च वस्तूनि तानि सर्वाणि साम्प्रतम् ॥१३०॥ तं देशं मां नयन्त्वाशु, श्रीमन्तस्तत्त्वदर्शिनः । हेतुगर्भं वचः श्रुत्वा, तदा तैस्तत्र प्रापितः ॥१३१॥ तत्रैकं जिनदासोऽसौ, स्थूलपट्टं द्विधाऽकरोत् । लक्षमूल्यानि रत्नानि, निर्गतान्यैक्षताऽमुतः ॥१३२॥ एवं वीक्ष्य ततस्तत्र, धर्मदासेन चिन्तितम् । अस्यैव निखिला सम्प- दस्मै देया हि सत्वरम् ॥१३३॥ एवं स्वचित्ते निर्धार्य, धर्मदासो महाशयः । तद्वस्तुजातं तस्मै हि, दातुं समुपचक्रमे ॥१३४॥ त्वदीयं वस्तु भोः श्रेष्ठिस्तुभ्यमेव समर्प्यते । गृहाण तत्कृपां कृत्वा, स्वकं दुःखं निवारय ॥ १३५ ॥ तदोक्तं जिनदासेन, क्षीणपुण्यस्य मे यदि । ऋद्धिर्नष्टाऽखिला दैवा - तव पार्श्व समागमत् ॥१३६॥ अवशिष्टं न ही पुण्यं तदा तद्ग्रहणेन किम् ? । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ॥१३७॥ इति निश्चित्य मनसा, तं खण्डं त्यक्तवानहम् । अत एव ग्रहीष्यामि न किञ्चिद्वस्तु साम्प्रतम् ॥१३८॥ एवमुक्त्वाऽग्रतो यान्तं, जिनं धर्मोऽब्रवीत् पुनः । गृहाण किञ्चिद्रनं त्वं सर्वेप्सा चेन्न ते सखे ! ॥१३९॥ अथाऽपि नाऽग्रहीत् किञ्चि-ज्जिनदासस्तदा ततः । प्रत्येकं बालकाभ्यां तु, सरनं मोदकद्वयम् ॥१४०॥ पाथेयं धर्मदासेन, दत्तं स्वोपकृतौ मुदा । न स्वीकृतं तद् बालाभ्यां पितुराज्ञानुसारतः ॥ १४१ || ( युग्मम्) ४७
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy