SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जिनदासस्तदा वीक्ष्य, पश्चात्तप्तं तथाविधम् । धर्मदासमुवाचेत्थं, दैवमेवाऽत्र कारणम् ॥ ११६॥ नाऽपराधोऽस्ति ते भद्र ! सर्वं मे कर्मणः फलम् । पुण्यं विना यतस्तेऽत्र, गृहे भोक्तुं समागमम् ॥ ११७|| प्रारब्धे यदि मे नास्ति, मिष्टान्नं तस्य भोजने । विपरीतं फलं तस्या- ऽवश्यम्भाव्यभवन्मम ॥ ११८ ॥ श्रेष्ठिना धर्मदासेन, प्रह्वीभूतेन सर्वथा । उक्तं तेन कथं स्थाली, पूर्णा कण्ठेऽभिखण्डिता ? ॥११९॥ तदोक्तं जिनदासेन, भोजनाय च मे पुरः । कण्ठेऽभिखण्डिता स्थाली, स्थापिता परिवेषिणा ॥ १२० ॥ ममैवेयं न वा स्थाली, तां दृष्ट्वा चिन्तितं मया । तस्याः खण्डितभागे च कण्ठखण्डो नियोजितः ॥ १२१ ॥ भोज्योष्णत्व- द्रुतीभूत-जतुना च दृढीकृता । भग्ना न दृश्यते तासु, तस्माद् भ्रान्तिरजायत ॥ १२२॥ खण्डमात्रेण किं कार्यं, भवेदिति विमृश्य च । न गृहीतो मया खण्ड- स्तत्कण्ठे योजितोऽप्यसौ ॥ १२३ ॥ प्रातिकूल्येन दैवस्य, जातं कार्यं विलक्षणम् । तदेव स्वविपत्तीनां मन्येऽहं मूलकारणम् ॥१२४।। इत्थञ्च सर्ववृत्तान्त-निवेदनपुरस्सरम् । वदति स्म ममैवैषा, ज्ञायतामृद्धिविस्तृतिः ॥१२५॥ स्वान्ते ते चेद् भवेच्छ्ङ्का, तदा सत्यापनाकृते । यत् पृच्छामि भवन्तं तद्, वक्तव्यं भवता स्फुटम् ॥१२६॥ स्थाल्यः प्राप्ता यतः स्थानात्, तत्राऽन्यदपि वस्तु किम् ? । प्राप्तं त्वया न वा श्रेष्ठिन् !, सत्यं सत्यं निगद्यताम् ॥१२७॥ जिनदासवचः श्रुत्वा, धर्मो धर्म्यमुवाच तम् । ध्रुवं मया प्रभूतानि वस्तून्याप्तानि तत्स्थलात् ॥१२८॥ ४६
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy