Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जिनदासकुटुम्बाग्रे, मुक्तास्तास्तेन सादरम् । न जाने कस्य कार्यस्य, भूमिका स्यादियं विधेः ॥७७।। भवितव्यत्वयोगेन, जिनदासपुरस्तदा । कण्ठेऽधिखण्डिता स्थाली, भोज्ययुक्ता समागता ॥७८।। तां दृष्ट्वा चिन्तयामास, स्थाल्येषा मम वाऽपरा । विकल्पेन विनिश्चेतुं, जिनदासः प्रचक्रमे ॥७९|| स्थालीखण्डं तु निष्कास्य, शिरोवेष्टनकान्निजात् । स्थालीखण्डितभागे तु, योजयामास पूर्ववत् ॥८०॥ अत्युष्णत्वेन भोज्यानां, द्रवीभूतेन योजितः । स खण्डो जतुना तत्र, यथापूर्वमजायत ॥८१।। विचारितं तदा तेन, सर्वर्द्धिर्यदि मे गता । तदाऽनेनाऽल्पखण्डेन, किं भविष्यति मे हितम् ? ॥८२॥ सोऽप्यपैतु यथापूर्वमिति निश्चित्य नाऽग्रहीत् । स्थाल्यां पूर्ववल्लग्नं, स्थालीखण्डं विवेकतः ॥८३।। विक्रीते गजराजे हि, किं भवेदङ्कुशेन वा ? । तस्माज्जीवनभारोऽयं, भाग्याधीनोऽस्तु मेऽखिलः ॥८४|| गण्यन्तामखिलाः स्थाल्य, इत्युक्तो धर्मकिङ्करः । एकैकतो विना कृत्वा, गणनामेवॆवमब्रवीत् ॥८५॥ आसीद् या खण्डकण्ठा, सा स्थाली दृश्यते न हि । तस्य तादृग्वचः श्रुत्वा, धर्मदासो विचक्षणः ॥८६॥ उवाच किङ्करं कस्मै, भोक्तुं स्थाली त्वयाऽपिता । पङक्त्यां कण्ठविदीर्णा सा, संस्मृत्येति निगद्यताम् ।।८७।। इति पृष्ठः किङ्करोऽसौ, स्मृत्वा तस्मै न्यवेदयत् । अद्याऽऽगतायाऽतिथये, श्रेष्ठिनेऽपितवानहम् ।।८८|| क्रमान्मयि ददाने च, मन्दभाग्यस्य दैवतः । जिनदासस्य पुरतः, सा स्थाली खण्डिताऽऽगता ॥८९॥
४३

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110