Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जिनदत्ताभिधो ज्येष्ठः, कनिष्ठो जिनरक्षितः । तयोरभूतां पुत्रौ द्वौ, विनीतौ सरलाशयौ ॥१२॥ दया-दाक्षिण्य-वात्सल्य-गुणरञ्जितमानसः ।। भूपोऽस्मै नगर श्रेष्ठि-पदं योग्याय दत्तवान् ॥१३॥ स श्रेष्ठी तेन लोकानां, मान्यस्तन्नगरेऽभवत् । तत्कीतिरिन्दुकुन्दाभ-धवला दिश आनशे ॥१४॥ सोऽगण्यपुण्ययोगेन, लब्धां लक्ष्मी कृतार्थयन् । सानन्दं सुचिरं कालं, निनाय भूरिभाग्यवान् ॥१५॥ कदाचिद् दैवयोगेन, क्षीणे पुण्ये पुराकृते । प्रारेभे रोदितुं रात्रौ, लक्ष्मीरेत्य महानसे ॥१६॥ निशम्य रोदनं तस्याः, श्रेष्ठिना तु विचारितम् । निशीथे करुणारावं, काचिद् रोदिति दुःखतः ॥१७॥ उत्थाप्य योषितं स्वीयां, दीपमादाय तत्र सः । पप्रच्छोपेत्य तत्पार्श्वे, कस्माद् रोदिषि सुन्दरि ! ॥१८॥ इति पृष्टा तदा देवी, तं श्रेष्ठिनमुवाच सा । विभूतेस्तव वत्साऽहमधिष्ठात्री सुरीश्वरी ॥१९॥ अवात्सं त्वद्गृहे श्रेष्ठि-स्त्वद्दानगुणरञ्जिता । गुणानुरागतो बद्धाऽहमद्यावधि निश्चला ॥२०॥ किन्तु सम्प्रति दुर्दैवा-निश्चलाऽपि च चञ्चला । अहं तव गृहादद्य, यियासुः प्रष्टुमागता ॥२१॥ स्नेहबद्धाऽपि हे भद्र !, दैवनद्धा हि साम्प्रतम् । हन्ताऽन्यत्र गमिष्यामि, त्वयाऽऽज्ञा मे प्रदीयताम् ॥२२।। तस्यास्तद्वचनं श्रुत्वा, स्वस्थः श्रेष्ठी स उक्तवान् । कस्याऽप्येकरसाऽवस्था, दृष्टा लोकेऽथवा श्रुता ? ||२३|| तत् त्वं मम गृहाद् देवी !, गच्छ स्वैरमनाकुला । अहं स्वदैवयोगेन, करिष्यामि यथातथम् ॥२४॥
३८

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110