Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एवं श्रीसिद्धर्षिगणिभगवद्भिर्धर्मप्राप्तेः कारणरूपेणैते गुणा वर्णिताः । एते गुणा मानवीयगुणाः सन्ति । मानवीयगुणविकासं विनाऽऽत्मिकविकासोऽशक्योऽस्ति । अद्य समाजे दयौदार्यं नीतिः शालीनता सत्यनिष्ठां च कुत्राऽपि न दृश्यन्ते । किमेते गुणा अस्तङ्गता एव स्युः ? महत्सु साधुजनेषु सत्सु नेतृषु चाऽप्येतेषां गुणानामंशोऽपि न भवेत् तर्हि तदाश्रितानां सामान्यजनानां किं स्यात् ? अद्य धर्मप्रवृत्तिं धर्मोत्सवं च विशेषतो जनाः कुर्वन्ति किन्तु एतेषां गुणानां तु ह्रास एव वर्तते, तद्गुणानां मूल्यमेव नास्ति ।
बन्धो ! वयं धर्मस्थानके आदिनं प्रभुभक्तिं कुर्मः, धर्मकार्ये बहु धनं व्ययीकुर्मः, गुरुजनानां सहृदयं शुश्रूषां कुर्मः, कठिनं तपश्च कुर्मः । एवं विशेषतया धर्मसाधनां कुर्वन्तो वयमेव यदि प्रतिदिनं क्लेशं कुर्याम, व्यापारे मुग्धजनान् वञ्चयेम, मातापितॄणामवमाननं कुर्याम, सेवकजनेभ्योऽल्पवेतनं दत्त्वा शोषयेम, कौटुम्बिकजनानां धनं अवहरेम, पुनः पुनश्च परेषां निन्दां कुर्याम तर्हि किमेष धर्म उचितोऽस्ति ?
चेतन ! वस्तुतः. स्वभावपरिवर्तनं चित्तवृत्तिशुद्धिश्चैव धर्म उच्यते । धर्मो न बाह्यक्रियायां न च धर्मसाधनेषु, किन्तु चित्तशुद्धौ अस्ति । अद्य चित्तशुद्धिशून्यः साधनशून्यश्च धर्मो विशेषतो जनैः क्रियते तत एवैतादृश्यां विशिष्टधर्मसाधनायां क्रियमाणायां सत्यामपि वयं निस्तेजसो दयनीयाश्च स्मः ।
अन्ते, श्रीसिद्धर्षिगणिभगवद्भिर्दशितान् गुणान् जीवने त्वमात्मसात् कुरु, इत्याशासे ।
३१
*

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110