Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ वदन् न लज्जते भवान् ? ह्यो भवता मह्यं न किमपि दत्तम्' । मुल्ला शान्त्या कथितवान् - 'भोः ! भवता ह्य एव मत्पार्श्वे दिनमेकं याचितमासीत्, तच्च मया भवते दत्तमपि ! पणवार्ता तु तदैव न समाप्ता किल ! अधुना तु न किमपि देयमवशिष्टं खलु !!' । अब्दुलः किं वा वदेत् ? (३) यात्रिकः एको यहूदीयो धर्मगुरुः स्वीये निवासस्थाने उपविष्ट आसीत् । तं च मिलितुं कश्चन अमेरिकीयो यात्रिकः समागत: । नमस्कारादिकं कृत्वा सोऽप्युपविष्टः सत्सङ्गं च कृतवान् । ततः स इतस्ततो विलोक्य धर्मगुरुं पृष्टवान् – 'गुरो ! भवतो गृहे कानिचन पुस्तकान्यतिरिच्याऽन्यत् किमपि न दृश्यते । कुत्राऽस्ति भवतः सर्वोऽप्यन्य उपस्कर: ?' धर्मगुरुणा सस्मितं प्रतिपृष्टं – 'बन्धो ! भवत उपस्करोऽपि न दृश्यते । स कुत्राऽस्ति ?' तेनोक्तं – 'गुरो ! अहं तु यात्रार्थं भ्रमन् यात्रिकोऽस्मि !' । गुरुणाऽपि प्रसन्नतयोक्तं 'अहमपि.......!!' । - ३५

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110