SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रगायं प्रगायं प्रभूतं यदीयं, यशो नीयते विश्वविश्वे विनेयैः । यशस्वी वचस्वीति मत्तोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ॥७॥ श्रुतिस्थैर्विरुद्धैर्गभीरैर्वचोभि र्मनः शङ्कितं यस्य जीवस्य सत्त्वे । सशङ्कोऽपि निश्शङ्खवद्वर्तते यो नमो गौतमस्वामिने मङ्गलाय ॥८॥ अपापाभिधायां नगर्यां समेताः, समे यज्ञमाकर्तुमाज्ञां दधानाः । यदीयां विदेशात् स्वदेशाच्च लोका, नमो गौतमस्वामिने मङ्गलाय ||९|| यदा वेदसूक्तैर्विधिं यज्ञसत्कं प्रसन्नेन चित्तेन कुर्वन् स्थितो यः । तदा तस्य शब्देन सर्वे ररज्जु नमो गौतमस्वामिने मङ्गलाय ||१०|| इतः श्रीमहावीरनामा जिनेशः समालोकितालोकलोको यदीयात् । सुभाग्यादपापां पुरीमाश्रितो वै, नमो गौतमस्वामिने मङ्गलाय ॥११॥ प्रभोरागतिं सज्जनेभ्यो विवेद्या ऽखिलानुत्तमान् सद्गुणानाकलय्यः । परं तन्न सेहे मदोन्मादमत्तो नमो गौतमस्वामिने मङ्गलाय ||१२|| प्रभोः सेवनायै समेताः समेषां सुराणां समूहा समुत्साहयुक्ताः । तदाऽऽयान्ति ते स्वान्तिकं योऽनुमेने नमो गौतमस्वामिने मङ्गलाय ||१३|| ५
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy