________________
यदा नागताः स्वस्य पार्वे सुरास्ते,
तदा खिन्नचेता विकल्पांश्चकार । महाधूर्तधूर्तोऽयमित्थं य ऊहे,
नमो गौतमस्वामिने मङ्गलाय ||१४|| अमुष्मिन् जने जीवतीह प्रवादी,
ह्ययं कोऽस्ति सर्वज्ञमानी विवादी । इतीत्थं मनो यस्य सज्जातमुग्रं,
नमो गौतमस्वामिने मङ्गलाय ||१५||
क्षणं नो सहे गर्वमस्याऽहमित्थं,
विचार्याऽचलत् सर्वशिष्यैर्वृतो यः । निजैर्बन्धुभिर्वार्यमाणोऽपि शीघं,
नमो गौतमस्वामिने मृङ्गलाय ||१६||
क्रमेणाऽऽगतो जीवजातानुकूलः,
प्रभो रम्यसन्देशनास्थानमूले । समीक्ष्यैव दूराद् गतो विस्मयं यो,
नमो गौतमस्वामिने मङ्गलाय ||१७|| यशोरक्षणार्थं करिष्येऽधुना किं,
___ यदीहाऽऽगतो नाऽभविष्यं तदा किम् । मनो यस्य सन्देहदोलाधिरूढं,
नमो गौतमस्वामिने मुडलाय ॥१८॥ यदि स्याज्जयोऽत्राऽपि मे भाग्यतस्तत्,
समग्रेऽत्र विश्वेऽद्वितीयो भवेयम् । विचार्येत्थमग्रे गतः सालमध्ये,
नमो गौतमस्वामिने मृङ्गलाय ||१९|| तदा स्वर्णसोपान-पङ्क्ति -स्थितो यो,
महावीर-वीरेण धीरेण प्रेम्णा । संभाषितो नामगोत्रेण पूर्व,
नमो गौतमस्वामिने मङ्गलाय ॥२०॥