________________
इदं नाऽद्भुतं नाम जानाति मेऽयं
यतो विश्वविख्यातमाख्यं मदीयम् । हृदीत्थं महामानतो यो मुमोद,
नमो गौतमस्वामिने मङ्गलाय ॥२१॥ परं संशयं मे वदेद् गुप्तगुप्तं
__हृदिस्थं तदाऽर्हन्नयं निर्विवादम् । स्थितो यः करोति प्रभूतान् विकल्पान्,
नमो गौतमस्वामिने मुडलाय ||२२।। तदोक्तं जिनेशेन भो ! इन्द्रभूते !
कथं जीवसत्वेऽस्ति ते संशयोऽयम् । तदाऽनमभूतोऽपि नमोऽभवद्यो,
नमो गौतमस्वामिने मङ्गलाय ||२३॥ गभीरेण घोषेण वेदोक्तसूक्तै
जिनेशेन संस्फेटितः संशयोऽस्य । बभूवाऽऽधशिष्यः प्रभोर्यस्तदाऽरं,
नमो गौतमस्वामिने मङ्गलाय ॥२४॥ नभोबाणसङ्ख्ये (५०) वयोवत्सरे श्री
__ महावीरतीर्थेश्वराग्रे गृहीत्वा । विशुद्धो महासंयमो येन चीर्णो,
_ नमो गौतमस्वामिने मङ्गलाय ॥२५॥ यदीया नु सर्वे क्रमेणाऽऽगतास्ते
ऽनुजाधाः श्रुतौ संशयं सन्दधानाः । प्रभोर्वाक्यतो दीक्षिता यत्प्रभावा
__ नमो गौतमस्वामिने मङ्गलाय ||२६|| दशैकोत्तरास्ते गणाधीश्वरत्वं,
प्रभोर्वीरवीरस्य तीर्थे समापुः । तदा योऽग्रिमोऽभूद् गणानामधीशो,
नमो गौतमस्वामिने मङ्गलाय ॥२७॥