________________
त्रिपद्या जिनेन्द्रेण सन्दिष्टयाऽऽशु,
कृता द्वादशाङ्गी महानङ्गसङ्गी । श्रुतज्ञानपूर्णप्रसिद्धेन येन,
नमो गौतमस्वामिने मङ्गलाय ||२८||
जिनेशान्तिके प्राञ्जलान्तःप्रवृत्त्या,
श्रुतज्ञानपूर्णोऽपि प्रश्नानकार्षीत् ।
जमज्जीवबोधार्थमव्यग्रचेता
नमो गौतमस्वामिने मङ्गलाय ||२९||
विधाने क्रियाणां जिनैर्देशितानां,
प्रमादं प्रमुच्याऽभवत्तत्परो यः ।
तपः षष्ठभक्तं सदैव व्यधत्त,
नमो गौतमस्वामिने मङ्गलाय ॥३०॥
अनेके प्रबुद्धा यदीयोपदेशाद्
गृहीत्वा महासंयमं पूर्णप्रीत्या
प्रपाल्याऽऽशु कैवल्यमाप्ता यदग्रे
नमो गौतमस्वामिने मङ्गलाय ||३१|| स्वपार्श्वे यदासीन्न तद् येन
परस्मै परं परामं केवलं तत् । समुद्भूतमत्यद्भुतं यस्य विश्वे
नमो गौतमस्वामिने मङ्गलाय ||३२||
स्वशक्त्याऽऽशु गत्वा शुभाष्टापदं यो
जिनान् वन्दते तद्भवे स प्रयाता ।
शिवं संश्रुतं येन वीराज्जिनेशाद्
नमो गौतमस्वामिने मङ्गलाय ॥३३॥
सुवर्ण चतुर्द्वारचैत्यं सुचारु,
सदा शोभते यत्र चक्रीशकृत्यम् ।
तदोपत्यकायां समेतस्त्वरा यो,
नमो गौतमस्वामिने मङ्गलाय ||३४|| (अपूर्णम्)
* * *
८