SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिवर्यगुणस्तुत्यष्टकम् - स्व. आ. विजयलब्धिसूरीश्वराः ["स्रग्धरावृत्तम्"] संसारापारवा. भविकभवभृतां मज्जतां यानपात्रं, यः प्राणिप्रार्जितानां भवभवतमसां कर्मणां सूर्यरूपः रागाद्यैर्मुष्यमाणं चरणघनधनं मोचितं येन नित्यं, श्रीआनन्दावसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ।।१।। यस्य प्रज्ञानभानोः किरणसमुदयान्नाशवन्तोऽन्धकाराः, पताश्रान्त्यैव जाताः कृतकुगतिमुखा मुक्तिमार्गे प्रसन्नाः । सर्वे प्रज्ञाः प्रणेशुहरय इव हरेर्यस्य संवित्स्वनेन, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ||२।। नष्टो यस्मात् स मोहो भुवि दिवि नरके यस्य राज्यं प्रचण्डं, यस्य क्रोधादयस्ते प्रबलभटगणा घ्नन्ति तद्वैरिणो ये । यस्याऽऽज्ञाऽलोपि तस्मान्नसुरनरवरै राजराजोऽरित योऽत्र, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ।।३।। पीत्वा वाणी यदीयां परिभवितसुधां कर्णतो भव्यजीवाः, नैर्मल्यं प्राप्य जग्मुः परमपदपथं वासनावासितान्ताः । यास्यन्त्यग्रेऽपि केचित्तिमिरभरहरान् यस्य ग्रन्थान् पठित्वा, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ||४|| यस्याऽऽस्योल्लासिपझे परिभवितकजे वेष्टिते सद्विरेफैलष्टे वासं विधत्ते धृतकरकमला सर्वदिग्वासयन्ती । देवी श्रीशारदा सा सुजनसुखकरा नित्यमानन्दपूर्णा, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ||५|| यस्मादुद्धारभाजो महदवटभवात् प्राणभाजो बभूवुः, पुंसो. रज्जूपमाद्वै विदलितरिपुता देवदैवैश्च पूज्याः । चेलुर्मुक्त्याख्यमार्गे चरणपदधरा मुक्तिरामाप्तुकामाः, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ||६||
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy