________________
यस्याऽऽर्तत्राणकार्यात् सुरनरविभुभिः कीर्तिरुद्गीयतेऽत्र, दीनानां प्रार्थनायाममरतरुसमः पार्श्ववघ्नभाजाम् । धर्मध्यानस्य कर्ता विशदगुणधरो मुक्तिमार्गे निषण्णः, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ।।७।। शस्यं यस्याऽऽस्यमासीद्रविरिव विमलं बोधयत् सत्सरोजं, चित्रं तापाद्धि रिक्तं नृदिविजशरणं प्राणिनां पङ्कहारि । सस्यं कल्याणरूपं निजकिरणगणैर्वर्द्धते स्म प्रवेगात्, श्रीआनन्दाहुसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ।।८।। सूरिश्रीकमलाख्यस्य चरणोपासकेन हि । लब्धिविजयबालेन रचितमिदमष्टकम् ।।९।।
* * *