________________
आर्तिदशकम्
- प्रा. अभिराजराजेन्द्रमिश्रः
समुच्छूने नेत्रे सलिलमवशिष्टं न तनुकं गतः स्तम्भं कण्ठः स्तवनमपि गातुं प्रतिहतः । शनैश्चैतन्यम्मे क्षयमिदमुपैति प्रविकलं भवानि ! त्वं करमान्मयि न दयसे ह्यङ्गुहृदया ? ||१|| धनुर्मी: छिन्ना किमु तव शराः कुण्ठितमुखा निशातो वा खड्गो जलपवनदोषाद् विकलितः । अशल्यो वा भल्लो महिषवधवक्षोऽम्ब ! विमुखो विपद्घाताज्जातः पदकमलमाध्वीमधुलिहाम् ।।२।। महामाये ! मग्नो भवविपदगाधार्णवजले प्रकाशं पश्यन्नोऽणुमपि चितिदं ह्यम्बरमणेः । दहन् भूयो भूयो दुरितपुटपाके तव सुतोऽभिराजोऽहं ब्रूहि, त्रिदशमपरं कन्नु वरये ॥३॥ न वासस्संसारे यदि समुचितो मे गिरिसुते ! भवत्या नीयेऽहं सपदि न कथं किङ्करगृहे । न तत्राऽपेक्षा किं भवनवलभीमार्जनकृतां प्रहेलीविज्ञानां बिरुदकुशलानां चटुभृताम् ||४|| धुवं जाने मातः ! प्रथम इह नाऽहं समुदये ऽनुकम्प्यानां, सन्ति प्रथिततरदुःखा मदितरे । परं तेषां मुधविपदवधिदैर्घ्यं न विपुलं स्वपक्षे याचेडहं तव जननि ! तस्मात्प्रपतनम् ।।५।। न विद्वान्लो वक्ता वचनचतुरो नाऽपि सरलः प्रकृत्या वक्रोऽहं निरतिशयपाप्मा निपतितः । भुनज्मि स्वं दण्डं बहुजनिकृतैनःप्रतिफलं विपाकोऽयं पूर्णो भवति च कदा वेद्मि न शिवे ॥६॥
११