________________
जनन्येवैका सा विधिहरिमहेशोपकरणी क्षमा सर्वं कर्तुं शतजनिविपाकाञ्छमयितुम् । इति श्रुत्वा मातः ! प्रवरवरवक्त्रेभ्य उदितं शरण्यं त्वां प्राप्तः घृणकृमिबलोऽहं सुगतये ॥७॥ न चाऽहं कालट्याः शिशुयतिवरश्शम्भुरपरः कवि! मूकोऽहं तव महिमगाताऽधिमदुरम् । तदीयं यत्किञ्चित्तदिव मम पार्श्वे न किमपि प्लवदुर्भाग्यम्मे तदपि तुलनीयं न च परैः ॥८॥ न लोक्ये नेत्राभ्यां सवदमृतवारामभिषवैन वा हस्तग्राहं जननि ! जय जीवेतिवचनैः । सकृच्चेदुत्थाप्ये परिषदि चुचुत्कारमहितैःन मे सन्तापोऽयं कथमपि समायाति तनुताम् ||९| प्रधाव वागम्ब ! प्रपतति सुतस्तेऽश्रुविकलोऽप्यनीशो गात्राणां दिशि विदिशि तूर्णं परिलुठन् । प्रयातेऽस्मिन् गास्यत्यहह तव कीर्तिं शुकनिभस्तदन्यो धन्यो को ललितललितां वा कलिकविः ॥१०॥
अम्बोद्धरस्व परिकल्प्य निजावलम्ब मा मां निरम्बमयि मां कुरु नो विलम्बम् । प्राणेऽक्षते जननि ! केवलमाहुयेऽहं यातेऽन्यथा क्व रुदितं रुदितंहरो वा ?? ||११||
त्रिवेणी कविना गीतं शिवायाः स्तवनं शुभम् । अम्बयाऽपि श्रुतं प्रीत्या समेषां सौख्यदं भवेत् ||१२।।
*
*
*