SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ धिक् तादृक्षं जीवनम् - - प्रा. अभिराजराजेन्द्रमिश्रः भारतजातमन्नमश्नन्ति भारतधरणीजलं पिबन्ति तदपि न येऽत्र हन्त रज्यन्ति धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ||१|| येषामपर एव निर्माता यः केवलं तदीयस्त्राता यो रक्षको न वाऽप्यपरेषां धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृङ्गो धिक्तादृक्षं जीवनम् ||२|| ह्यो जाता अपि ये शाश्वतिकाः ये शाश्वतिकारते निर्गतिकाः येषां खड्गबले विश्वासो धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृद्को धिक्तादृक्षं जीवनम् ॥३॥ येषां स्वार्थसाधकं दानम् कृतकं सहृदयतासन्धानम् धर्मान्तरणे महावदानं धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ||४|| दृष्ट्वा भारतयशोऽपहारम् ये शत्रूणां जयजयकारम् निर्लज्जा घुष्यन्ति सनृत्यं धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृदङ्गो धिक्तादृक्षं जीवनम् ॥५॥ मुष्टिमिता ये परं प्रथन्ते पृथगात्मानं ये मन्यन्ते ये न भविष्यं निजं श्रयन्ते धिक्तादृक्षं जीवनम् बूते धिग् धिग् धिगिति मृद्को धिक्तादृक्षं जीवनम् ||६||
SR No.521035
Book TitleNandanvan Kalpataru 2016 05 SrNo 35
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2016
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy