Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ आस्वादः कथां कः कथयेत् ? - एच्. वि. नागराजराव् कथाः सदा जनप्रियाः । शिशवो बाला युवानो वृद्धाश्च कथां कुतूहलेन शृण्वन्ति । शास्त्रं यदि बोध्यते, सर्वे विमलेन मनसा न शृण्वन्ति, तत्र जामिताम् अनुभवन्ति । किन्तु कथायाः कल्पनामयत्वात् पुरस्तात् किं स्यादिति कौतुकं भवति । कथाकथनं सर्वेषां न सिध्यति । तत्र कौशलमपेक्षितम् । भाषाप्रभुत्वं वाग्मिता ऊहापोहवैचक्षण्यं यस्य विद्यते, यस्य बहुश्रुतत्वं, लोकानुभवश्च भूयिष्ठः, स श्रेष्ठः कथको भविष्यति । एतद्विषये भगवता जैनसिद्धान्तपारावारपारीणेन जिनसेनाचार्येण महापुराणे प्रथमपर्वणि निगदितान् श्लोकान् अत्र प्रस्तुमः । तस्यास्तु कथकः सूरिः सवृत्तः स्थिरधीर्वशी। कल्येन्द्रियः प्रशस्ताङ्गः स्पष्टमृष्टेष्टगीर्गुणः ॥ वशी नाम जितेन्द्रियः । कल्येन्द्रियः स यस्य नेत्रश्रोत्रादीनीन्द्रियाणि शक्तानि । यस्य गी: - वाणी स्पष्टा च मृष्टा च श्रोतृणाम् इष्टा च स उच्यते स्पष्टमृष्टेष्टगीर्गुणः । तादृशः कथां कथयेत् । यः सर्वज्ञमताम्भोधिवाभॊतविमलाशयः । अशेषवाङ्मलापायादुज्जवला यस्य भारती ॥ सर्वज्ञस्य जिनस्य मतमेवाऽम्भोधिः समुद्रः, तस्य वारा जलेन धौतः विमलाशयो हृदयं यस्य स तथोक्तः । भारती वाणी । श्रीमान् जितसभो वाग्मी प्रगल्भः प्रतिभानवान् । यः सतां सम्मतव्याख्यो वाग्विमर्दभरक्षमः ॥ जिता सभा येन स जितसभः । प्रतिभानवान् प्रतिभाशाली । दयालुर्वत्सलो धीमान् परेङ्गितविशारदः । योऽधीती विश्वविद्यासु स धीरः कथयेत् कथाम् ॥ परेषां यदिङ्गितं, तस्य ज्ञाने विशारदः विचक्षणः । विश्वविद्यासु सर्वशास्त्रेषु । २३

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110