Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ य इन्द्रनामसङ्केकितो नामेन्द्रो रथ्यापुरुषादिः स्वर्गसाम्राज्यमनुभवति; घटोऽस्ति, घटमानय, घटेन जलमाहरतीत्यादौ सर्वत्र व्यवहारे भावघटस्यैवाऽऽपामरं प्रतीत्युपपत्तेः । न च नाम्नाऽप्यर्थप्रतीतिरूपं कार्यं भवत्येवेति वाच्यम्; भावाऽनवबोधात् । योऽयं मृत्पिण्डदण्डचक्रकुलालादिकारणचक्रनिष्पन्नो भावस्तस्यैव नामस्थापनाद्रव्यभावतश्चतुर्धा विभजनमनुयोगद्वारतयाऽऽ श्रीयते । तत्रैवमुच्यते - भावघट एव घटकार्यतया लोकप्रसिद्धाया जलाहरणाद्यर्थक्रियाया निष्पादने पटुरिति स एव मुख्यो घटः; नामघटादयस्तदात्मतामासादयन्त एव तादृशार्थक्रियाकारिणो, नाऽन्यथेति । अर्थप्रतीतिस्तु यन्नामकार्यतयोपदर्श्यते तत्राऽपीयमेव गतिः; यतो घटरूपार्थप्रतीतिकार्यकारित्वात् घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं यन्नाम तत्तादृशप्रतीतिरूपकार्याश्रयेण भावनाम । यच्च न तादृशानुपूर्व्यवच्छिनं, किन्तु पकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्याद्यवच्छिन्नं पटादिरूपार्थप्रतीतिकार्यकारि तदपि घटनामेतिनाम्ना सङ्केतितं तन्नामनाम; अर्थो वा यः कश्चित्तथासङ्केतितो नामनामेति प्रत्येतंव्यः । उक्तनाम्नश्च चित्रादौ स्थापिताक्षाकारः स्थापनानाम । तन्नाम्नश्च पूर्वं वर्तमाना भाषावर्गणा या तन्नामरूपेण परिणमिष्यति सा द्रव्यनामेति । एवं विभज्यमाने घटनामस्वरूपे भावनामैव घटार्थप्रतीतिरूपकार्यनिष्पादने क्षममिति तदेव सत् । नामनामादयस्तु तद्रूपताश्रयणेनैवोक्तप्रतीतिकारिणः । एवमाकृतिद्रव्ययोरपि भावनीयम् । भावनिक्षेपमूलकं च सौगतदर्शनम् । यतस्तन्मते पूर्वोत्तरपर्यायानुगामि द्रव्यं नास्त्येव; सर्वस्यैव क्षणिकतयैवाभ्युपगमात् । स्वलक्षणस्याऽर्थस्य शब्दगोचरत्वं नास्त्येवेति नाऽर्थप्रतिपादकतयाऽभिमतं नामाऽपि तत्र विद्यते । अयमभिप्राय: - न हि तन्मते घटपटादिनामैव नास्ति; अनभूयमानस्य तस्याऽपलपितुमशक्यत्वात्; किन्त्वर्थप्रतिपादकतापन्नस्य शब्दस्य नामता भवति । तन्मते च शब्दस्याऽर्थप्रतिपादकता नास्तीति विशेषणाभावाद् विशिष्टस्याऽप्यभाव इति । आकृतिस्तु क्रिययाऽवयवानां सन्निवेशविशेषः संयोगविशेषापरपर्यायस्तन्मते नास्त्येव; यतः क्रियैव नास्ति, अविरलक्रमेण विभिन्नदेशसन्तानोत्पादस्य क्रियास्थाने तेनाऽभिषेकात् । संयोगोऽपि नास्ति, तत्स्थाने नैरन्तर्यस्यैवाऽभिषिक्तत्वात् । एवमवयव्यपि नास्ति, तत्स्थाने परमाणुपुञ्जस्यैवाऽऽदृतत्वादतो वर्तमानक्षणवृत्तिभावमात्रं तन्मते परमार्थसत्, अर्थक्रियाकारित्वलक्षणसत्त्वयोगादिति दिक् ॥ * * *

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110