Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अस्मिन् ग्रन्थेऽष्टौ प्रस्तावा विद्यन्ते । सर्वेष्वपि प्रस्तावेषु चित्तशुद्धिकराः सुन्दरभावाः प्ररूपिताः सन्ति । तथाऽपि सप्तमप्रस्तावे धर्मप्राप्तेर्ये उपाया वर्णितास्तेऽद्य चिन्तनीयाः सन्ति ।।
____बन्धो ! वयं सर्वेऽपि स्वकीयात्मानं धार्मिकं मन्यामहे, यतः सामायिकमुत्कृष्टं तपः प्रभुभक्ति ध्यानं च कुर्मः, किन्त्वेषा तु मिथ्याभ्रमणाऽस्ति । चित्तशुद्धिं मानवीयगुणविकासं च विना धर्मशुद्धिः शक्यैव न । तत एव सिद्धर्षिगणिभगवता धर्मविकासस्य पूर्वं मानवीयगुणविकासस्य भावना वणिता ।
प्रथमं, सेवनीया दयालुता
जीवमात्रं प्रति दया करणीया । येन तवाऽक्षम्योऽपराधः कृतः, येन च तवाऽहितं कृतं, तथाऽपि तस्याऽपराधं विस्मृत्य दया करणीया । दयागुणस्तु धर्मस्याऽऽधारोऽस्ति । दयां विना कृतोऽन्यो धर्मस्तु मूलरहितवृक्षसमो ज्ञेयः । दयारहितो न कोऽपि धर्मो दृढः स्थिरश्च भवति । उक्तं च -
दयानद्या महातीरे, सर्वे धर्मास्तृणाङ्कुराः ।
तस्यां शोषमुपेतायां कियन्नन्दन्ति ते चिरम् ? ॥ बन्धो ! 'विल ड्युरा' नाम्नेतिहासविदा बृहत्काय एको ग्रन्थो लिखितोऽस्ति । तत्र तेन लिखितं यद् - यस्याः संस्कृत्या मूले दया तपः श्रीश्च विद्यते सैव संस्कृतिश्चिरञ्जीविनी भवति, नाऽन्या । दयाशून्या संस्कृतिरुत्पद्यते, विकसति, विकृति प्राप्नोति, अन्ते च विनश्यति । अद्यावधि 'ग्रीक-सीरिया-अरेबिकइत्यनेकविधा संस्कृतिरुत्पन्ना तथाऽस्तङ्गता चाऽपि, किन्तु आर्यसंस्कृतिः सुरक्षिताऽस्ति, यतस्तस्या मूलेऽस्ति दयाधर्मः 1 आर्यसंस्कृतौ यादृशी दया वर्तते तादृशी दया तु न कुत्राऽप्यस्ति । अत्र न केवलं मनुष्याणामेव दया, अपि तु सूक्ष्मजीवानामपि दयाऽऽसेवनीयेति उक्तमस्ति ।
एवं सर्वेष्वपि धर्मेषु कथितम् - सेवनीया दयालुता । न विधेयः परपरिभवः -
केषाञ्चिदपि तिरस्कारो न करणीयः । अहितकारिणां द्वेषिजनानां विरोधिजनानां चाऽपि दुर्भावो द्वेषश्च न विधेयः । अस्माभिर्लघ्वीं घटनामपि मनसिकृत्याऽन्यो जनस्तिरस्क्रियते, किन्त्वेषा वृत्तिर्न युक्ता । यतस्तिरस्कारो नाम द्वेषः, द्वेषो नाम मोहः, मोहो नाम मिथ्यात्वम् । एवं तिरस्कारवृत्तिना विशिष्टधर्माराधनां विधायाऽपि वयं मिथ्यात्वगुणस्थानकमवाप्नुमः ।।
. जना धर्मस्थानके प्रभुभक्तिं तपश्च कुर्वन्ति, ते एव जना अन्यान् प्रति तिरस्कारं घृणां च कुर्वन्ति । तत एतादृशो धर्मो न सत्यधर्मः । एवमेष दुर्गुण औदार्यं सारल्यं चेत्यादीनां आत्मनामनेकेषां सद्गुणानामावारकोऽस्ति ।
भो ! अस्माकं मानसे सदा तिरस्कारवृत्तिर्दुर्भावो द्वेषोऽरुचिश्चेति दुर्गुणा विशेषतो भृताः सन्ति । त्वं मनोगतभावान् पश्य - मनसि न सद्गुणा अपि तु दुर्गुणा एव द्रक्ष्यन्ते । ममेच्छाविरुद्धं कृतं केनाऽपि, मम कथनं च न स्वीकृतं केनाऽपि, मम विरोधिजनैः सह आसीनः सः, केनाऽपि निन्दनीयं कार्य कृतम्, अतस्स तिरस्क्रियतेऽस्माभिः । एवं यदि प्रतिपदमन्येषां तिरस्कारः क्रियतेऽस्माभिस्तहि का गतिर्भवेदस्माकम् ?
२७

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110