Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 37
________________ यदि दुर्जनः पापिजनो महारम्भी चाऽपि न निन्दनीयः, किन्त्वुपेक्षणीयस्तर्हि पूज्यजनो धर्मिजनः सामान्यज़नश्च कथं निन्दनीयस्तिरस्करणीयश्च ? पापिजनानामपि भवस्थितिरेव चिन्तनीया यद् - एते जीवा गुरुकर्मणा बद्धाः सन्ति, तत एव ते जीवा एतादृशमनुचितं कर्म कुर्वन्ति । अत्र न तेषां दोषः, अपि तु कर्मदोषोऽस्ति विचित्रकर्मवशादेवोत्तमोत्तमं मानवभवं सुकुलं सद्धर्मं चाऽवाप्याऽपि जीवा अशुभं कार्य कुर्वन्ति, इति । श्रीहरिभद्रसूरीश्वरः षोडशकप्रकरणे आह - प्रणिधानं तत्तत्समये स्थितिमत्तदधः कृपानुगञ्चैव । यो जीवो विशिष्टधर्ममाराधयति, उत्तमाध्यवसायमासेवते, तस्य जीवस्याऽनुमोदना करणीया; तथा यो जीवो धर्मं न करोति, अधर्ममेव करोति, निन्दनीयं च कार्यं करोति तस्य जीवस्याऽप्यनुकम्पा करणीया, न तु तिरस्कारो दुर्भावश्च । एतदेव धर्मप्राप्तेः प्रथमं सोपानमस्ति । महोपाध्यायश्रीयशोविजयवाचकेनाऽप्युक्तम्निन्द्यो न कोऽपि लोकः । पापिष्ठेष्वपि भवस्थितिश्चिन्त्या ॥ (अध्यात्मसारप्रकरणम्) श्रीहरिभद्रसूरिणाऽन्यत्राऽपि कथितम्पापवत्स्वपि चाऽत्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्यो धर्मोऽयमुत्तमः ॥ एवं न केषाञ्चिदपि परिभवो न विधेयः । मोक्तव्या कोपनता __ कस्मैचिदपि न कदाऽपि क्रोधः करणीयः । वयं शान्ता उत क्रोधिनः ? – इति प्रश्नः सर्वैः शान्तचित्तेन चिन्तनीयः । यावद् निमित्तं नाऽवाप्तं तावदेव वयं शान्ताः । शुभमशुभं वा निमित्तमवाप्याऽपि यदि मनसि न रागो न द्वेषश्च जायेत तर्खेवाऽऽश्चर्यं ज्ञेयम् । बन्धो ! तडागस्थितं जलं बाह्यदृष्ट्याऽतिनिर्मलं दृश्यते, किन्तु यदा कोऽपि जनस्तडागे पाषाणं क्षिपेत् तदा तडागान्तःस्थितः कचवर उपर्यागच्छेत्, सर्वमपि जलं मलिनं कुर्याच्च । एवं स्थिते सति ज्ञायते जलं निर्मलमुत मलिनमस्ति । एवं रीत्या मनसो विचलितकरं कारणमवाप्याऽपि मनो विचलितं न स्यात् तदा ज्ञेयं मनः शान्तमस्ति, इति । क्रोधो विवेकं नाशयति । विवेकविहीनो जनो मातरं पितरं पूज्यजनं चेति सर्वमपि प्रति किं किं न प्रलपति ? वयं त्वतीव कोपनशीला: स्मः । आवेशवशेनाऽस्माभिः स्वकुलं यैः कलङ्कीक्रियते तादृशा असभ्योच्चाराः क्रियन्ते । एवं क्रोधात् किं न भवेत् ? श्रीकृष्णो गीतायामुक्तवान् २८

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110