Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 33
________________ नानोपाख्यानकुशलो, नानाभाषाविशारदः । नानाशास्त्रकलाभिज्ञः, स भवेत् कथकाग्रणीः ॥ कथकाग्रणीः श्रेष्ठः कथकः । नोऽगुलीभञ्जनं कुर्यान्न ध्रुवौ नर्तयेद् बुवन् । नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ॥ कथाकनवेलायां चेष्टाः काश्चन वर्जनीयाः इति श्लोकस्य तात्पर्यम् । उच्चैः प्रभाषितव्यं स्यात् सभामध्ये कदाचन । तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ सभ्यं यत् सभायां साधु । अनाकुलम् असन्दिग्धम् । हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धन॑ यशस्करम् । प्रसङ्गादपि न बूयादधर्म्यमयशस्करम् ॥ धर्म्य धर्मादनपेतम् । यशस्कर कीतिकारणम् । एवं कथां कथयन् विद्वान् स्वस्य परेषां च हितम् आचरति । * * *

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110