Book Title: Nandanvan Kalpataru 2016 05 SrNo 35
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ इदं नाऽद्भुतं नाम जानाति मेऽयं यतो विश्वविख्यातमाख्यं मदीयम् । हृदीत्थं महामानतो यो मुमोद, नमो गौतमस्वामिने मङ्गलाय ॥२१॥ परं संशयं मे वदेद् गुप्तगुप्तं __हृदिस्थं तदाऽर्हन्नयं निर्विवादम् । स्थितो यः करोति प्रभूतान् विकल्पान्, नमो गौतमस्वामिने मुडलाय ||२२।। तदोक्तं जिनेशेन भो ! इन्द्रभूते ! कथं जीवसत्वेऽस्ति ते संशयोऽयम् । तदाऽनमभूतोऽपि नमोऽभवद्यो, नमो गौतमस्वामिने मङ्गलाय ||२३॥ गभीरेण घोषेण वेदोक्तसूक्तै जिनेशेन संस्फेटितः संशयोऽस्य । बभूवाऽऽधशिष्यः प्रभोर्यस्तदाऽरं, नमो गौतमस्वामिने मङ्गलाय ॥२४॥ नभोबाणसङ्ख्ये (५०) वयोवत्सरे श्री __ महावीरतीर्थेश्वराग्रे गृहीत्वा । विशुद्धो महासंयमो येन चीर्णो, _ नमो गौतमस्वामिने मङ्गलाय ॥२५॥ यदीया नु सर्वे क्रमेणाऽऽगतास्ते ऽनुजाधाः श्रुतौ संशयं सन्दधानाः । प्रभोर्वाक्यतो दीक्षिता यत्प्रभावा __ नमो गौतमस्वामिने मङ्गलाय ||२६|| दशैकोत्तरास्ते गणाधीश्वरत्वं, प्रभोर्वीरवीरस्य तीर्थे समापुः । तदा योऽग्रिमोऽभूद् गणानामधीशो, नमो गौतमस्वामिने मङ्गलाय ॥२७॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110