Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 38
________________ ॥९०|| ॥९ ॥ ॥९२॥ ॥९३॥ अधिकम् गुरुवर! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन् अधिकम् - २ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर ! चरितं तव चारुताभरितम् अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर ! महतो महीयोऽदः अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम् विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्यानाम् विशेषः - २ तीर्थे तीर्थे गुरुवर ! परोक्षरूपेण दृश्यते हि भवान् । रक्षोद्धारविकासा-दिककारी भूरितीर्थानाम् विशेषः - ३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लृप्तं "कल्पद्रुरुपासितोऽस्माभिः" व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव “दुःखदास्ते" कृत्वेति त्यक्तवान् भवांश्चित्रम् ॥९४॥ ॥९५॥ ॥९६॥ ॥९७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128