Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 118
________________ 4 झटिति पञ्चमश्रेण्याः अधः आगच्छन्तं नयनं निरीक्ष्यविजयः - नयन ! कथमेतावत्या त्वरया धावति ? नयनः - मदीया घटिका अधोऽपतत्, ततः तस्याः अधःपतनस्य पूर्वमेव तां गृह्णामि। B विजयः - तवाऽधोगमनपूर्वं तु सा नष्टा भवेत् ! नयनः - अशक्यम् ! अशक्यम् ! यतो मदीया घटिका सदा दशपलं । मन्दगत्या चलति । (राज्ञा सानन्दं कवये दत्तैका दुर्बला वडवा द्वितीयदिने सा मृता) राजा - कविवर ! मम वडवा कीदृशी? कविः - किं भवद्भिः अर्पिता वडवा न्यूना भवेत् ? - । राजा - तस्याः गतिः कीदृशी? । कविः - प्रभो ! किं कथयामि, भवतां वडवैकस्यामेव निशि एतज्जगत् विमुच्याऽन्यत्र जगति गतवती । -सन्तोषः आनन्दः शास्त्री, सूरत । । एको दार्शनिको बृहती सभा सम्बोधयति स्म । सभायाः समापनकाले तेनोद्घोषितं यद् “यदि नाम कोऽपि प्रश्नयितुं समुत्सुकस्तर्हि स्वप्रश्न पत्रोपरि लिखित्वाऽत्र प्रेषयतु।" एवमुद्घोषिते सति बहुभिर्जनैः प्रश्नाः प्रेषिताः प्रत्युत्तराश्च सम्प्राप्ताः । अत्र च क्रमे पत्रमेकं तस्य हस्तगतमभूत् । तेन च तत्पठितम् । तत्र लिखितमस्ति स्म - 'गर्दभः' इति। एवं पठित्वा क्षणं स स्तब्धोऽभवत् । किन्तु झटित्येव स उवाच - "अत्रैकं पत्रं प्राप्तमस्ति मया यस्मिन् केनचित् महाशयेन स्वनामोल्लेखः कृतोऽस्ति किन्तु प्रश्नलेखनं तु विस्मृतम् ।" १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128