Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ जनो मां संरुध्योक्तवान् यद् –' तव श्वसुरस्याऽवसानं सञ्जातमस्ति । स्वामिन् ! मामनुमन्यताम् । अहं गृहं गन्तुमिच्छामि । एतादृशं वृतान्तं श्रुत्वा स्वास्थ्यमपि नाऽनुभवामि, अतः कृपां विधातु । एतादृश्यां स्थितौ यद्यहमश्वं निर्वक्ष्यामि तर्हि निश्चितं पतिष्यामि, अतः मां क्षम्यताम् ' - इति सर्वं व्यतिकरमुक्तवान् । राजाऽपि तं स्वगृहं प्रैषीत् । राजा प्रधानोऽन्येऽपि च तमश्वं साश्चर्यं द्रष्टं लग्नाः । तदाऽऽगन्तुकोऽवदत् - 'राजन् ! एष एव विशेषोऽश्वस्य यद् य एवं वाहयिष्यति स दुःखी भविष्यति' - इति । अथ तमश्वं तत्स्थाने बद्ध्वाऽन्यमेकं रक्तमश्वं स अश्वशालातो बहिरानयत् । आनीय च भूपतिमभ्याहरत् – 'राजन् ! इदानीमन्यमेकं सैनिकं भवानाज्ञापयतु यद् स एनमश्वं वाहयेत्' इति । राज्ञ आज्ञया स सैनिकस्तमारूह्य ततो निर्गतः । तदाऽऽगन्तुक उवाच - ‘य एनमश्वमारोहति स आनन्दरूपान् मङ्गलकारकांश्चैवोदन्तान् प्राप्नोति'। सर्वेऽपि तस्य सत्यस्य प्रत्यक्षं दिदृक्षयोत्कण्ठिता अभवन् । तावदल्पीयसैव कालेन सोऽपि प्रत्यागतवान् किन्तु स प्रसन्नवदन आसीत् । राज्ञा पृष्टः सोऽकथयत् - "स्वामिन् ! क्षम्यतां मेऽविनयम् । अहमनतिदूरं गत्वैव प्रत्यागतोऽस्मि । मार्गे वर्धापितोऽहं मम मित्रेण यद् 'तव गृहे पुत्रो जातः'। अपरं मम भ्राता विदेशात् प्रचुरं धनमुपाया॑ऽधुनैवाऽऽगतोऽस्ति । विधिस्तु ममाऽनुकूलो वर्तत इत्यनुभवामि । अस्यां चाऽऽनन्दमयस्थितौ नाऽश्वारोहणे मम चित्तं स्थैर्यं भजते । अतो मां गृहं गन्तुमनुमन्यताम् ।" राजा सतोषं तमागन्तुकं निरैक्षीष्ट । 'प्रभो ! किं सन्तुष्टा भवतो जिज्ञासा? यद्येवं तर्हि सेवाकार्यार्थं मां नियोजयतु । अन्यानामश्वानां स्वरूपमपि शनैः शनैः दर्शयिष्याम्येव' इति राज्ञे स विज्ञप्तिं कृतवान् । राजाऽपि तं अश्वशालाया अधिकारित्वेन न्ययुङ्। एवं तत्र स्थितः स नित्यं अश्वान् परीक्षते राज्ञःसमक्षं च तल्लक्षणानि व्यावर्णयति । व्यतीतेषु कतिपयदिनेषु तेनैकदा राज्ञः समक्षमेकोऽश्वः प्रस्तुतः । अश्वस्त्वेष किञ्चिज्जरायुक्तोऽपि स्वस्थः स्फूर्तिमांश्चाऽऽसीत् । अधिकारित्वेन नियुक्तः स आगन्तुको राजानमुद्दिश्यैवं समवदत् - 'राजन् ! भवतः सहस्रेष्वप्यश्वेषु एषोऽश्वः शिरोमणितुल्योऽस्ति । अस्याऽस्तित्वेनैवाऽन्येषां सर्वेषामप्यश्वानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128